श्रीविठ्ठल कवच
स्तोत्र - मंत्र > विठ्ठल स्तोत्र Posted at 2018-11-30 09:58:07
।। श्रीविठ्ठलकवचम् ।।
सूत उवाच ।
शिरो मे विष्ठलः पातु कपोलं मुद्गरप्रियः ।
नेत्रयोर्विष्णुरूपी वैकुण्ठो घ्राणमेव च ॥ १॥
मुनिसेव्यो मुखं पातु दन्तपङ्क्तिं सुरेश्वरः ।
विद्याधीशस्तुमे जिह्वां कण्ठं विश्वेशवन्दितः ॥ २॥
व्यापको हृदयं पातु स्कन्धौ पातु सुखप्रदः ।
भुजौ मे नृहरिः पातु करौ च सुरनायकः ॥ ३॥
मध्यं पातु सुराधीशो नाभिं पातु सुरालयः ।
सुरवन्द्यः कटी पातु जानुनी कमलासनः ॥ ४॥
जङ्घे पतु हृषीकेशः पादौ पातु त्रिविक्रमः ।
निखिलं च शरीरं मे पातां गोविन्दमाधवौ ॥ ५॥
अकारो व्यापको विष्णुरक्षरात्मक एव च ।
पावकः सर्वपापानामकाराय नमो नमः ॥ ६॥
तारकः सर्वभूतानां धर्मशास्त्रेषु गीयते ।
पुनातु विश्वभुवनं तोङ्काराय नमो नमः ॥ ७॥
मूलप्रकृतिरूपा या महामाया च वैष्णवी ।
तस्या बीचेन संयुक्तयकारायनमो नमः ॥ ८॥
वैकुण्ठाधिपतिः साक्षाद्वैकुण्ठपददायकः ।
वैजयन्तीसमायुक्तो विकाराय नमो नमः ॥ ९॥
स्नातः सर्वेषु तीर्थेषु पूतो यज्ञादिकर्मसु ।
पावनो द्विजपङ्क्तीनां ठकाराय नमो नमः ॥ १०॥
वाहनं गरुडो यस्य भुजङ्गः शयनं तथा ।
वामभागे च लक्ष्मीश्च लकाराय नमो नमः ॥ ११॥
नारदादिसमायुक्तं वैष्णवं परमं पदम् ।
लभते मानवो नित्यं वैष्णवं धर्ममाश्रितः ॥ १२॥
व्याधयो विलयं यान्ति पूर्वकर्मसमुद्भवाः ।
भूतानि च पलायन्ते मन्त्रोपासकदर्शनात् ॥ १३॥
इदं षडक्षरस्तोत्रं यो जपेच्छ्रद्धयान्वितः ।
विष्णोस्सायुज्यमाप्नोति सत्यंसत्यं नसंशयः ॥ १४॥
इति श्रीपद्मपुराणे विठ्ठलकवचं सम्पूर्णम् ।
Search
Search here.