यमुनाष्टक

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-12-01 04:20:47
यमुनाष्टक नमामि यमुनामहं सकल सिद्धि हेतुं मुदा मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम । तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥ कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता । सघोषगति दन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥ भुवं भुवनपावनीमधिगतामनेकस्वनैः प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरंगभुजकंकण प्रकटमुक्तिकावाकुका- नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥ अनन्तगुण भूषिते शिवविरंचिदेवस्तुते घनाघननिभे सदा ध्रुवपराशराभीष्टदे । विशुद्ध मथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥ यया चरणपद्मजा मुररिपोः प्रियं भावुका समागमनतो भवत्सकलसिद्धिदा सेवताम । तया सहशतामियात्कमलजा सपत्नीवय- हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥ नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं न जातु यमयातना भवति ते पयः पानतः । यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥ ममास्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये । अतोस्तु तव लालना सुरधुनी परं सुंगमा- त्तवैव भुवि कीर्तिता नतु कदापि पुष्टिस्थितैः ॥७॥ स्तुति तव करोति कः कमलजासपत्नि प्रिये हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । इयं तव कथाधिका सकल गोपिका संगम- स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥ तवाष्टकमिदं मुदा पठति सूरसूते सदा समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेत वदति वल्लभः श्रीहरेः ॥९॥ ॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥

Search

Search here.