श्री पंचमुख हनुमान स्तोत्र कवच

श्रीपंचमुख हनुमान कवच

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ ॥ श्रीपञ्चवदनायाञ्जनेयाय नमः ॥

अथ श्रीपञ्चमुखीहनुमत्कवचप्रारम्भः ॥
श्रीपार्वत्युवाच ॥
सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः । कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं करुणानिधे । वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् ।
साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ २॥
श्रीशिव उवाच ।
देवेशि दीर्घनयने दीक्षादीप्तकलेवरे । मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ ३॥
कथं वाच्यं हनुमतः कवचं कल्पपादपम् । स्रीरूपा त्वमिदं नानाकुटमण्डितविग्रहम् ॥ ४॥
गह्वरं गुरुगम्यं च यत्र कुत्र वदिष्यसि । तेन प्रत्युत पापानि जायन्ते गजगामिनि ॥ ५॥
अतएव महेशानि नो वाच्यं कवचं प्रिये ॥ ६॥
श्रीपार्वत्युवाच ।
वदान्यस्य वचोनेदं नादेयं जगतीतले । स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा ॥ ७॥
मह्यं च किं न दत्तं ते तदिदानीं वदाम्यहम । गणपं शाक्त सौरे च शैवं वैष्णवमुत्तमम् ॥ ८॥
मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया । दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते ॥ ९॥
श्रीराम तारको मन्त्रः कोदण्डस्यापि मे प्रियः । नृहरेः सामराजो हि कालिकाद्याः प्रियंवद ॥ १०॥
दशाविद्याविशेषेण षोडशीमन्त्रनायिकाः । दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धरापते ॥ ११॥
सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः । ये ते ह्यदेया देवेश तेऽपि मह्यं समर्पिताः ॥ १२॥
किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा । अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् ।
स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ १३॥
श्रीशिव उवाच ।
सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव । परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ १४॥
कलौ पाखण्डबहुला नानावेषधरा नराः । ज्ञानहीना लुब्धकाश्च वर्णाश्रमबहिष्कृताः ॥ १५॥
वैष्णवत्वेन विख्याताः शैवत्वेन वरानन । शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः ॥ १६॥
गाणपत्वेन गिरिजे शास्त्रज्ञानबहिष्कृताः । गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले ॥ १७॥
ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता यत्र कुत्राचित् । मन्त्राद्युच्चारणे तेषां नास्ति सामर्थ्यमम्बिके ॥ १८॥
तच्छिष्याणां च गिरिजे तथापि जगतीतले । पठन्ति पाठयिष्यति विप्रद्वेषपराः सदा ॥ १९॥
द्विजद्वेषपराणां हि नरके पतनं धुवम् । प्रकृतं वच्मि गिरिजे यन्मया पूर्वमीरितम् ॥ २०॥
नानारूपमिदं नानाकूटमण्डितविग्रहम् । तत्रोत्तरं महेशाने शृणु यत्नेन साम्प्रतम् ॥ २१॥
तुभ्यं मया यदा देवि वक्तव्यं कवचं शुभम् । नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः प्रियम् ॥ २२॥
वक्तव्यं कत्रचित्तत्तु भुवने विचरिष्यति । विश्वान्तःपातिनां भद्रे यदि पुण्यवतां सताम् ॥ २३॥
सत्सम्प्रदायशुद्धानां दीक्षामन्त्रवतां प्रिये । ब्राह्मणाः क्षत्रिया वैश्या विशेषेण वरानने ॥ २४॥
उचारणे समर्थानां शास्त्रनिष्ठावतां सदा । हस्तागतं भवेद्भद्रे तदा ते पुण्यमुत्तमम् ॥ २५॥
अन्यथा शूद्रजातीनां पूर्वोक्तानां महेश्वरि । मुखशुद्धिविहीनानां दाम्भिकानां सुरेश्वरि ॥ २६॥
यदा हस्तगतं तत्स्यात्तदा पापं महत्तव । तस्माद्विचार्यदेवेशि ह्यधिकारिणमम्बिके ॥ २७॥
वक्तव्यं नात्र सन्देहो ह्यन्यथा निरयं व्रजेत् । किं कर्तव्यं मया तुभ्यमुच्यते प्रेमतः प्रिये ।
त्वयापीदं विशेषेण गेपनीयं स्वयोनिवत् ॥ २८॥
ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः । गायत्रीछन्दः ।
पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् । इति दिग्बन्धः ।
श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि शृणुसर्वाङ्गसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥ सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् । पञ्चास्यमच्युतमनेक विचित्रवर्ण वक्त्रं शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटै रूपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशङ्कराय स्वाहा ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता । हनुमानिति बीजम् ।
वायुपुत्र इति शक्तिः । अञ्जनीसुत इति कीलकम् । श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः । इति ऋष्यादिकं विन्यसेत् ॥
ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः । ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः । ॐ रामदूताय कनिष्ठिकाभ्यां नमः । ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
ॐ अञ्जनीसुताय हृदयाय नमः । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् । ॐ पञ्चमुखहनुमते अस्त्राय फट् । पञ्चमुखहनुमते स्वाहा । इति दिग्बन्धः ॥
अथ ध्यानम् ।
वन्दे वानरनारसिंहखगराट् क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधा कुम्भाङ्कुशाद्रिं हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।
अथ मन्त्रः ।
ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय
फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय
दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय
महाफाल्गुनसखाय सीतासहित- रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा । ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं ळङ्क्षं स्वाहा । इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।
ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय
महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा । भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा । सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा ।
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः । एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् । पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः । कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥
॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥

0 thoughts on “श्री पंचमुख हनुमान स्तोत्र कवच

  • June 11, 2016 at 10:42 am
    Permalink

    Gives a Nice feeling

    Reply
  • June 17, 2017 at 11:17 am
    Permalink

    Shyam guruji thanks for all these updates, really very good useful collection at one place.
    Thanks

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!