श्री विष्णु शतनाम स्तोत्रम्

श्री वेदव्यासकृतं श्री विष्णुशतनामस्तोत्रम्

वासुदेवं ह्रषीकेशं वामनं जलशायिनम्। जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम्। अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम्। गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्। चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम्। त्रिविक्रमं त्रिकालज्ञं त्रमूर्तिं नन्दिकेश्वरम् ॥
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम्। श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥
दामोदरं दमोपेतं केशवं केशिसूदनम्। वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम् ॥
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम्। सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥
हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम्। मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्। सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥
ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम्। योगीशं योगनिष्णातं योगिनं योगरूपिणम् ॥
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम। इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम। यः पठेत प्रातरुत्थाय स भवेद्वैष्णवो नरः ॥
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्। चान्द्रायणसहस्राणि कन्यादानशतानि च ॥
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः। अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥
॥ ॐ नमः भगवते वासुदेवाय ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!