बिल्वाष्टोत्तर शतनामावलिः

।। बिल्वाष्टोत्तरशतनामावलिः ॥

श्री शिवशंकराला बेलपत्र अर्पण करताना खालील स्तोत्र म्हणावे. हे स्तोत्र म्हणून शिवाला बेल पत्र अर्पण केले असता शिवशंकर त्वरित प्रसन्न होऊन भक्ताच्या इष्ट कामना पूर्ण करतात . असेही नित्यनियमाने या स्तोत्र पठणाने सर्व दुःख दारिद्र्य चिंता नष्ट होऊन सौख्य समाधान प्राप्त होते..
बिल्व पत्र अर्चन अष्टोत्तरशत स्तोत्र —
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥
सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् । सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥ ३॥
नागाधिराजवलयं नागहारेण भूषितम् । नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥ ४॥
अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ५॥
त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् । विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥ ६॥
त्रिशूलधारिणं देवं नागाभरणसुन्दरम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ७॥
गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् । कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥ ८॥
शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् । सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥ ९॥
सच्चिदानन्दरूपं च परानन्दमयं शिवम् । वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥ १०॥
शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् । हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥ ११॥
अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् । ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥ १२॥
हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् । अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥ १३॥
पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् । नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥ १४॥
सुराश्रयं विषहरं वर्मिणं च वरूधिनम् । महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥ १५॥
कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् । तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥ १६॥
दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् । अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥ १७॥
नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् । महापापसंहारं एकबिल्वं शिवार्पणम् ॥ १८॥
चूडामणीकृतविभुं वलयीकृतवासुकिम् । कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥ १९॥
कर्पूरकुन्दधवलं नरकार्णवतारकम् । करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥ २०॥
महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् । महापापहरं देवं एकबिल्वं शिवार्पणम् ॥ २१॥
भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् । वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥ २२॥
फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् । नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥ २३॥
कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् । वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥ २४॥
सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् । मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥ २५॥
दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् । मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥ २६॥
सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् । निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥ २७॥
सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् । सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥ २८॥
सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् । सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ २९॥
मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् । कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥ ३०॥
तेजोमयं महाभीमं उमेशं भस्मलेपनम् । भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ ३१॥
स्वर्गापवर्गफलदं रघुनाथवरप्रदम् । नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥ ३२॥
मञ्जीरपादयुगलं शुभलक्षणलक्षितम् । फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥ ३३॥
निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् । तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ ३४॥
सर्वलोकैकपितरं सर्वलोकैकमातरम् । सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥ ३५॥
चित्राम्बरं निराभासं वृषभेश्वरवाहनम् । नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥ ३६॥
रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् । नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ ३७॥
दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् । नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ ३८॥
रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् । भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ ३९॥
वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् । पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥ ४०॥
सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् । सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥ ४१॥
नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् । विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ ४२॥
अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् । धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ ४३॥
गौरीविलाससदनं जीवजीवपितामहम् । कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥ ४४॥
सुखदं सुखनाशं च दुःखदं दुःखनाशनम् । दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥ ४५॥
सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् । अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥ ४६॥
सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् । सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ ४७॥
जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् । जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥ ४८॥
विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् । वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ ४९॥
गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् । जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥ ५०॥
त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् । दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥ ५१॥
कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् । कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥ ५२॥
कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् । शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ ५३॥
जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् । पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥ ५४॥
सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् । ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥ ५५॥
मन्दारमूलनिलयं मन्दारकुसुमप्रियम् । बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ ५६॥
महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् । सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥
बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५८॥
युगाकारं युगाधीशं युगकृद्युगनाशनम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५९॥
धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् । कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ ६०॥
सुरावासं जनावासं योगीशं योगिपुङ्गवम् । योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥ ६१॥
उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् । भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥ ६२॥
विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् । विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥ ६३॥
कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् । ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥ ६४॥
लावण्यमधुराकारं करुणारसवारधिम् । भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥ ६५॥
जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् । कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ ६६॥
शिवं शान्तं उमानाथं महाध्यानपरायणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६७॥
वासुक्युरगहारं च लोकानुग्रहकारणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६८॥
शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् । शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥ ६९॥
शरणागतदीनार्त परित्राणपरायणम् । गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥
भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् । करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥ ७१॥
क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् । व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥ ७२॥
भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् । हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥ ७३॥
दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् । हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ ७४॥
महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् । वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ ७५॥
स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् । जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ ७६॥
रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् । रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥ ७७॥
फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् । दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥ ७८॥
नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् । मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ ७९॥
मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् । सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८०॥
निधनेशं धनाधीशं अपमृत्युविनाशनम् । लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥ ८१॥
भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् । कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥ ८२॥
घोरपातकदावाग्निं जन्मकर्मविवर्जितम् । कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥ ८३॥
मातङ्गचर्मवसनं विराड्रूपविदारकम् । विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥ ८४॥
यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् । यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ ८५॥
कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् । योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८६॥
महोन्नतमहाकायं महोदरमहाभुजम् । महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥ ८७॥
सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् । महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥ ८८॥
समस्तजगदाधारं समस्तगुणसागरम् । सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥
माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः । दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥ ९०॥
तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे । प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥ ९१॥
तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ९२॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ९३॥
तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा । पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥ ९४॥
अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् । मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ९५॥
सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९६॥
दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् । सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥ ९७॥
चतुर्वेदसहस्राणि भारतादिपुराणकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९८॥
सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् । तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥ ९९॥
अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके । अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥ १००॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ १०१॥
अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा । त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥ १०२॥
दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् । सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०३॥
पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् । अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥ १०४॥
विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् । तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥ १०५॥
त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् । जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥ १०६॥
अनेकदानफलदं अनन्तसुकृतादिकम् । तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०७॥
त्वं मां पालय सर्वत्र पदध्यानकृतं तव । भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥ १०८॥
उमयासहितं देवं सवाहनगणं शिवम् । भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ १०९॥
सालग्रामसहस्राणि विप्राणां शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ११०॥
अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ १११॥
अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥ ११२॥
एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् । महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ ११३॥
एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् । द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् ।
त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् । अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ ११४॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ ११५॥
कोटिजन्मकृतं पापं अर्चनेन विनश्यति । सप्तजन्मकृतं पापं श्रवणेन विनश्यति ।
जन्मान्तरकृतं पापं पठनेन विनश्यति । दिवारात्रकृतं पापं दर्शनेन विनश्यति ।
क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति । पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ।। ११६ ॥
इति बिल्वाष्टोत्तरशतनामावलिः समाप्ता ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!