बृहस्पति स्तोत्र

बृहस्पति स्तोत्र

वक्रतुंड महाकाय सूर्यकोटी समप्रभ
निर्विघ्नम् कुरु मे देवं सर्व कार्येषु सर्वदा ।।

अस्य श्री बृहस्पातिस्तोत्रमंत्रस्य गृत्समदऋषिः ।
अनुष्टुप् छंदः । ब्रृहस्पतिर्देवता । बृहस्पतिप्रीत्यर्थे जपे /अभिषेके विनियोगः ।।

गुरुबृहस्पतिर्जीवः सुराचार्यो विंदावरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ।।१।।
सुधादृष्टिर्गहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्ति । सुरार्च्यः कुंभलद्युतिः ॥२॥
लोकपूज्यो लोकगुरूनीतिज्ञो नीतिकारकः ।
तारापतिश्चंगिसो वेदवैद्य पितामहः ।।३।।
भक्त्या बृहस्पति स्मृत्वा नामान्येतानि यः पठेत ।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥
जीवेद्वर्षशतं मर्त्यो पापं नह्याति नह्याति ।
यः पूजयेद्गुरूदिने पीतगन्धाक्षताम्बरैः ॥५॥
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद् गुरोः ॥६॥

इति श्री स्कंद पुराणे बृहस्पतिस्तोत्रं संपूर्णम् …

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!