विश्वकर्मास्तोत्रम्

॥ विश्वकर्मास्तोत्रम् ॥

विश्वकर्मा ध्यानम् ।
न भूमिर्न जलञ्चैव न तेजो न च वायवः
नाकाशं च न चित्तञ्च न बुद्धीन्द्रियगोचराः
न च ब्रह्मा न विष्णुश्च न रुद्रश्च तारकाः
सर्वशून्या निरालम्बा स्वयम्भूता विराटसत्
सदापरात्मा विश्वात्मा विश्वकर्मा सदाशिवः ॥

श्रितमध्यतमध्यस्तं ब्रह्मादिसुरसेवितम् ।
लोकाध्यक्षं भजेऽहं त्वां विश्वकर्माणमव्ययम् ॥

प्राकादिदिङ्मुखोत्पन्नो सनकश्च सनातनः ।
अभुवनस्य प्रत्नस्य सुपर्णस्य नमाम्यहम् ॥

अखिलभुवनबीजकारणम् ।
प्रणवतत्त्वं प्रणवमयं नमामि ॥

पञ्चवक्त्रं जटाधरं पञ्चदशविलोचनम् ।
सद्योजाताननं श्वेतं च वामदेवन्तु कृष्णकम् ॥

अघोरं रक्तवर्णं च तत्पुरुषं हरितप्रभम् ।
ईशानं पीतवर्णं च शरीरं हेमवर्णकम् ॥

दशबाहुं महाकायं कर्णकुण्डलशोभितम् ।
पीताम्बरं पुष्पमालं नागयज्ञोपवीतिनम् ॥

रुद्राक्षमालासंयुक्तं व्याघ्रचर्मोत्तरीयकम् ।
पिनाकमक्षमालाञ्च नागशूलवराम्बुजम् ॥

वीणां डमरुकं बाणं शङ्खचक्रधरं तथा ।
कोटिसूर्यप्रतीकाशं सर्वजीवदयापरम् ॥

विश्वेशं विश्वकर्माणं विश्वनिर्माणकारिणम् ।
ऋषिभिः सनकाद्यैश्च संयुक्तं प्रणमाम्यहम् ॥

इति विश्वकर्मास्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!