दत्तगीता पंचमोध्यायः
श्रीदत्तगीता – पंचमोध्यायः
श्रीगणेशाय नमः ॥
बहुधा श्रुतयः कथयंति यतो वियदादिमिदं मृगतोयसमम् ॥
यदि चैकनिरंतरसर्वशिवम् हुपमा च कथं ह्युपमेयहीनम ॥१॥
अविभक्त – विभक्तविहीनपरं ननु कार्य विकार्यविहीनपरम् ॥
यदिचैकनिरंतरसर्वशिवं यजनं कथमध्ययनादिकम् ॥२॥
मनएव निरंतरसर्वगतं मनएव निरंतरहीनपरम् ॥
मनएव निरंतरसर्वशिवं मनएव कथं हि विचारयति ॥३॥
दिनरात्रिविभेदनिराकरणं उदितानुदितस्य निराकरणम् ॥
यदिचैकनिरंतरसर्वशिवं रविचंद्रमसौ ज्वलनश्व कथम ॥४॥
गतकाम्य – विकाम्यविभेद इति गतवेष्टत – चेष्टतभाव इति ॥
यदि चैकनिरंतरसर्वशिवं बहिरंतरसंधि – विसंधिविहीनम् ॥५॥
नहि यत्रहि सार – विसार इति इह शून्य – विशून्यविहीन इति ॥
यदिचैकनिरंतरसर्वगतं प्रथमं च कथं द्वितीयं च कथम् ॥६॥
यदिभेदक – भेद्यनिराकरणं यदि वेदक – वेद्यनिराकरणम् ॥
यदि चैकनिरंतरसर्वशिवं तृतीयचतुर्थं कथं च तुरीयम् ॥७॥
गदितागदितं नहि सत्यमिति विहिताविहितं नहि सत्यमिति ॥
यदि चैकनिरंतरसर्वशिवं विषयेंद्रियबुद्धिमनश्व कथम् ॥८॥
यदि कल्पितभेदनिराकरणं यदिकल्पिपतवेदनिराकरणम् ॥
यदि चैकनिरंतरसर्वशिवं श्रुतयश्व कथं हि पुराणतमम् ॥९॥
गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति ॥
यदि चैकनिरंतरसर्वशिवं जलदं च कथं सलिलं च कथम् ॥१०॥
मरणामरणस्य निराकरणं करणाकरणस्य निराकरणम् ॥
यदि चैकनिरंतरसर्वशिवं गगनागगनं च कथं हि वद ॥११॥
प्रकृती पुरुषो नहि भेद इति नहि कारणस्यन विरक्तिरिति ॥
यदि चैकनिरंतरसर्वशिवं पुरतोपुर्तस्य कथं हि वद ॥१२॥
तव आश्रमवर्णविहीनपरं कारणकतृकविहीनपरम् ॥
यदि चैकनिरंतारसर्वशिंव गुण – दोष – विचारवचांसि कथम् ॥१३॥
ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति ॥
यदि चैकनिरंतरसर्वशिवं इह नेति न नेति कथं च पुनः ॥१४॥
तनुधर्म – विधर्मविहीन इति ननु कार्यविकार्यविनाश इति ॥
यदि चैकनिरंतरसर्वशिवं अविनोद – विनोदरतिश्व कथम् ॥१५॥
पुरुषोपुरुषस्य विनष्टिरिति वनितावनितस्य विनष्ठिरिति ॥
यदि चैकनिरंतरसर्वशिवं अविनष्टि ननष्टि कथं च भवेत ॥१६॥
यदि मोह – विमोहविहीनपरं यदि संशय – शोकविहीनपरम् ॥
यदि चैकनिरंतरसर्वशिवं इह दुःख – विदुःखमनश्व कथम् ॥१७॥
नसितासितवर्णविचार इति न परापरभेदविभाग इति ॥
यदि चैकनिरंतरसर्वशिवं ननु सार – विसारविभिन्नपरम् ॥१८॥
नहि याज्ञिक – यज्ञविधानमिति नहुताशनवस्तुविधानमिति ॥
यदि चैकनिरंतरसर्वशिवं भवकर्मफलं विभवंच कथम् ॥१९॥
यदि पूर्ण – विपूर्णविहीन इति यदि सर्वविवर्जितसर्वमिति ॥
यदि चैकनिरतरसर्वशिवं इह तर्क – वितर्कपरंच कथम् ॥२०॥
उपसंत्द्दतभेदविभेद इति उपसंत्द्दति – बुद्धिविबुद्धि इति ॥
यदि चैकनिरंतरसर्वशिंव अविवेक – विवेकमतिश्व कथम् ॥२१॥
ननु शोक – विशोकविमुक्त इति ननु दर्प – विदर्पविमुक्त इति ॥
यदि चैकनिरंतरसर्वशिवं ननु – विरागमनश्व कथम् ॥२२॥
नहि मोह – विमोहविकार इति नहि लोभ – विलोभविकार इति ॥
यदि चैकनिरंतरसर्वशिवं इहतेति कथम् ममतेति कथम् ॥२३॥
त्वमहं नहि यत्र कदाचिदपि कुलजातिविचारमसत्यमिति ॥
अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ॥२४॥
गुरु – शिष्यविचारविशीर्ण इति उपदेशविचारविशीणं इति ॥
अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ॥२५॥
नहि कल्पितवेदविभाग इति नहि कल्पिततत्त्वविभाग इति ॥
अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ॥२६॥
सरजाविरजा नकदाचिदपि ननु निर्मल – निश्वलबुद्धिरिति ॥
अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम ॥२७॥
विंदति नहि नहि यत्र छंदोलक्षणं नहि नहितत्र ॥
समरसमज्ञो भावितपूतः प्रभवित तत्त्वं परमवधूतः ॥२८॥
ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां
श्रीदत्त – गोरक्षकसंवादे निर्वाणमोहद्वैतनिरूपणम् नाम पंचमोध्यायः ॥५॥