त्रिसुपर्णमन्त्राः
त्रिसुपर्णमन्त्राः
ब्रह्म मेतु माम् । मधु-मेतु माम्। ब्रह्म-मेव मधु-मेतु माम्। यास्ते सोम प्रजावथ्सोऽभिसो अहम्। दुःष्वप्नहन्दुरुष्षह । यास्ते सोम प्राणाँ स्ताञ्जुहोमि। त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्। ब्रह्महत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं पुनन्ति। ओम्॥
ब्रह्म मेधया। मधु मेधया। ब्रह्ममेव मधु मेधया। अद्या नो देव सवितः प्रजावथ्सावी-स्सौभगम्।
परा दुष्वप्नियँ सुव।विश्वानि दवे सवित-र्दुरितानि
परासुव। यद्भद्रं तन्म आसुव। मधुवाता ऋतायते
मधुक्षरन्ति सिन्धवः। माध्वीर्न-स्सन्त्वोषधीः। मधुनक्तमुतोषसी मधुमत्पार्थिवँ रजः। मधुद्यौ
-रस्तु नः पिता। मधुमान्नो वनस्पतिर्-मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः। य इमं त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्। भ्रूणहत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं पुनन्ति। ओम् ब्रह्म मेधवा। मधु मेधवा। ब्रह्म-मेव मधु मेधवा । ब्रह्मा देवानां पदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम्। श्येनो गृद्ध्राणाँ स्वधिति-र्वनानाँ सोमः पवित्रमत्येतिरेभन्न् । हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथि-र्दुरोणसत्। नृष-द्वरस-दृतस-द्व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । ऋचे त्वा रुचे त्वा समि-थ्स्रवन्ति सरितो न धेनोः। अन्तर् हृदा मनसा पूयमानाः। घृतस्या धारा अभिचाकशीमि हिरण्ययो वेतसो मध्य आसाम्तस्मिन्थ्सुपर्णो मधुकृत् कुलायी भज-न्नास्ते मधु-देवताभ्यः। तस्यासते हरय-स्सप्ततीरे स्वधां दुहाना अमृतस्य धाराम्। य इदं त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्। वीरहत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं पुनन्ति। ओम् तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपो।आग्निर्दमः शमयिता दानं दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत्।।यावद्ध्रि -यते सा दीक्षा यदश्नाति तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यत्सञ्चरत्यु- पविशत्युत्तिष्ठते च स प्रवर्ग्यो यन्मुखं तदाहवनीयो या व्याहृतिरहुतिर्यदस्य विज्ञान तज्जुहोति यत्सायं प्रातरत्ति तत्समिधं यत्प्रातर्मध्यन्दिनꣳ सायं च तानि सवनानि ।। ये अहोरात्रे ते दर्शपूर्णमासौ येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथः ।। एतद्वै जरामर्यमग्निहोत्रꣳसत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद् ब्रह्मणोम हिमानम्।।
ॐ सहनावतु सहनौ भुनक्तु सहविर्यं करवावहे।
तेजस्विनावधितमस्तु मा विद्वेषावहै।।
।।इतित्रिसुपर्णसमाप्तं।।