गणेश नामाष्टक स्तोत्र

गणेश नामाष्टक स्तोत्र

विष्णुरुवाच –
 गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्। लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम्।।

नामाष्टार्थं च पुत्रस्य श्रृणु मातर्हरप्रिये। स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम्।।

ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः। तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम्।।

एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः। बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम्।।

दीनार्थवाचको हेश्च रम्बः पालकवाचकः । दीनानां परिपालकं हेरम्बं प्रणमाम्यहम्।।

विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः। विपत्खण्डनकारकं नमामि विघ्नायकम्।।

विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा। पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम्।।

शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ। सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम्।।

विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम्। तद् गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम्।।

गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये। वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम्।।

एतन्नामाष्टकं दुर्गे नामभिः संयुतं परम्। पुत्रस्य पश्य वेदे च तदा कोपं तथा कुरु।।

ततो विघ्नाः पलायन्ते वैनतेयाद् यथोरगाः। गणेश्वरप्रसादेन महाज्ञानी भवेद् ध्रुवम्।।

पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम्। महाजडः कवीन्द्रश्च विद्यावांश्च भवेद् ध्रुवम्।।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!