बाल रक्षा स्तोत्र

छोट्या बाळांना नेहमी त्रास होणे , नजर वैगेरे लागणे , सतत चिडचिड हट्टीपणा , झोपेत घाबरणे, या अशाने अस्वस्थ राहणे यामुळे होणारा त्रास कमी होण्यासाठी हे बालरक्षा स्तोत्र नित्य पठण करावे.

॥ श्रीबालरक्षा स्तोत्र ॥

श्री गणेशाय नमः ।
अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १॥

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २॥

इन्द्रियाणि हृषीकेशःl प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ ३॥
पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः । var गर्भश्च ते क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ ४॥
 var केशवः व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ ५॥
 डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६॥
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ ७॥
 स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ८॥
॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा समाप्ता ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!