गंगा अष्टक
।। श्री गंगाष्टकम् ।।
हरि ॐ
ऊँ श्री गणेशाय नमः
ऊँ श्री गंगायै नमः
नमस्तेऽस्तु गंगे त्वदंगप्रसंगा-
द्भुजंगास्तुरंगाः कुरंगाः प्लवंगाः
अनंगारिरंगाः ससंगाः शिवांगा भुजंगाधिपांगीकृतांगा भवन्ति ॥१॥
नमो जह्नुकन्ये न मन्ये त्वदन्यै-र्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः
अतोऽहं नतोऽहं सदा गौरतोये वसिष्ठादिभिर्गीयमानाभिधेये ॥२॥
त्वदामज्जनात् सज्जनो दुर्ज्जनो वा विमानैस्समानः समानैर्हिमानैः
समायाति तस्मिन् पुरारातिलोके पुरद्वारसंरुद्धदिक्पाललोके॥ ३॥
स्वरावासदंभोलिदंभोपि रंभा-परीरंभसंभावनाधीरचेताः
समाकाङ्क्षते त्वत्तटे वृक्षवाटी-कुटीरे वसन्नेतुमायुर्द्दिनानि ॥४॥
त्रिलोकस्य भर्तुर्ज्जटाजूटबन्धात्
स्वसीमन्तभागे मनाक् प्रस्खलन्तः।
भवान्या रुषा प्रौढसापत्निभावात् करेणाहतास्त्वत्तरङ्गा जयन्ति ॥५॥
जलोन्मज्जदैरावतोद्दामकुंभ-
स्फुरत्प्रस्खलत्सान्द्रसिन्दूररागे।
क्वचित् पद्मिनीरेणुभंगप्रसंगे मनः खेलतां जह्नुकन्यातरङ्गे ॥६॥
भवत्तीरवानीरवातोत्थधूली-
लवस्पर्शतस्तत्क्षणात्क्षीणपापः
जनोऽयं जगत्पावने त्वत्प्रसादात् पदे
पौरुहूतेऽपि धत्तेऽवहेलाम् ॥७॥
त्रिसन्ध्यानमल्लेखकोटीरनाना-
विधानेकरत्नांशुबिंबप्रभाभिः।
स्फुरत्पादपीठे हठेनाष्टमूर्ते-
र्जटाजूटवासे नताः स्मो पदं ते ॥८॥
इदं यः पठेदष्टकं जह्नुपुत्र्या-
स्त्रिकालं कृतं कालिदासेन रम्यम्।
समायास्यतीन्द्रादिभिर्गीयमानं
पदं शैशवं शैशवं नो लभेत् सः ॥ ९ ।।
इति श्री गंगाष्टकं सम्पूर्णम्