अर्धनारीश्वराष्टकम्

॥ अर्धनारीश्वराष्टकम् ॥ उपमन्यू कृत

अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १॥

प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ॥ २॥

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ३॥

कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ ४॥

पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय । कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ॥ ५॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ६॥

प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७॥

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु । सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय ॥ ८॥

अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् । यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥ ९॥

॥ इति उपमन्युकृतं अर्धनारीश्वराष्टकम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!