श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्र
श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रम् । तच्छिष्यकृतया टिप्पण्या समेतम् । योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय- प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् । आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपास्महे परिणतं दन्तावलस्यात्मना ॥ १ ॥
Read more