दत्तगीता तृतीयोध्यायः

श्रीदत्तगीता – तृतीयोध्यायः

श्रीगणेशाय नमः ॥

श्रीदत्त उवाच – आवाहनं नैव विसर्जनं च पुषाणि पत्राणि कथं भवंति ॥

ज्ञानानि दानावि कथं भवंति समासमं चैव शिवार्चनं च ॥१॥

नकेवलं बधं – विबंध – मुक्तो नकेवलं शुद्ध – विशुत्ध – मुक्तः ॥

नकेवलं योग – वियोग – मुक्तो सर्वैर्विमुक्तो गगनोपमोहम ‍ ॥२॥

संजायते सर्वमिदं वितथ्यं नजायते सर्वमिदं वितथ्यम् ‍ ॥

एवं विकल्पो मम नैव जातः संवित्धि निर्वाणमनोमयोहम् ‍ ॥३॥

नचाननं वापि निरंजनं वा नचांतरं वापि निरंजनं वा ॥

अंतर्बहिर्भिन्नमिदं वितथ्यं स्वरूपनिर्वाणमनोमयोगम् ‍ ॥४॥

अबोधरूपं मम नैव जातं बोधस्वरूपं मम नैव जातम् ‍ ॥

अबोध – बोधं च कथं वदामि स्वरूपनिर्वाणमनोमयोहम् ‍ ॥५॥

नधर्मंयुक्तो नच पापयुक्तो नबत्धमुक्तो न च मोक्षयुक्त : ॥

युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाण . ॥६॥

परस्परं वा न म मे कदाचित् ‍ मध्यस्थभावो हि न चारिमित्रः ॥

हिताहितं चापि कथं वदामि स्वरूपनिर्वाण० ॥७॥

नौपासको नैवमुपास्यरूपं नचौपदेशो न च मे क्रिया च ॥

सिद्धिप्रसिद्धिं च कथं वदामि स्वरूपनि ) ॥८॥

नव्यापकं व्याप्यमिहास्ति किंचिन्नवाऽलयं वापि निरालयं वा ॥

अशून्यशून्यं च कथं वदामि स्वरूप० ॥९॥

नग्राह्यकं ग्राहकमेव किचिन्नकारणं वा मम नैव कार्यम् ‍ ॥

अचिंत्यं – चिंत्यं च कथं वदामि स्वरू० ॥१०॥

नकेवलं वा मम नैव भेद्यं न केवलं वा मम नैव भेदः ॥

अनागतं मित्र कथं वदामि स्वरूप० ॥११॥

नचास्ति देहो न च मे विदेहो नबुद्धिर्मनो मे न हि चेंद्रियाणि ॥

रागो विरागश्व कथं वदामि स्वरूप० ॥१२॥

उल्लेखमात्रं न हि नम्रमुच्चैरुल्लेखमात्रं न तिरोहितं च ॥

समासमं मित्र कथं वदामि स्वरूप० ॥१३॥

जितेंद्रियोहं त्यजितेंद्रियो वा नसंयमो मे नियमो हि जातः ॥

जयोऽजयो वाऽपि कथं वदामि स्वरूप० ॥१४॥

अमूर्तिमूर्तिर्न च मे कदाचिदाद्यंत – मध्यो न च मे कदाचित् ‍ ॥

चलाचलं चित्त कथं वदामि स्वरूप० ॥१५॥

मृतामृतं चापि न मे विषं च संजायते तात न कदाचिंत् ‍ ॥

अशुद्धशुद्धं च कथं वदामि स्वरूप० ॥१६॥

स्वप्न – प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे काचचित् ‍ ॥

अतूर्य – तूर्यं च कथं वदामि स्वरूपनि० ॥१७॥

संविद्धि मां सर्वविसर्गमुक्तं ध्यानादिकं कर्म कथं करोमि ॥

माया – विमाया च कथं वदामि स्वरूप० ॥१८॥

संविद्धि मां ध्यानसमाधियुक्तं संविद्धि मां लक्ष – सलक्षयुक्तम् ‍ ॥

योगं – वियोगं च कथं वदामि स्वरूप० ॥१९॥

मूर्खोपि नाह न च पंडितोहं समौ न वार्ता न च मे कदाचित् ‍ ॥

स्त्रेहं विमोहं च कथं वदामि स्वरूपनि० ॥२०॥

पिता न माता न कुलं न जातिः संसारभूतिर्न च मे कदाचित् ‍ ॥

स्त्रेहं विमोहं च कथं वदामि स्वरूप० ॥२१॥

अस्तोदये नैव सदोदितोहं दिवा च नक्तं न च मे कथंचित् ‍ ॥

तेजो – वितेजश्व कथं वदामि स्वरूप० ॥२२॥

असंशयं विद्धि निरंतरं मां असंशयं विद्धि निरंजनं माम् ‍ ॥

असंशयं विद्धि निराकुलं मां स्वरूप० ॥२३॥

धर्माणि सर्वाणि परित्यजंति शुभाशुभं कर्म परित्यजंति ॥

ज्ञानामृतं चारु पिबंति धीराः स्वरूपनि० ॥२४॥

गोरक्ष उवाच – विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥

समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥२५॥

इति श्रीदत्तात्रेयगीतासूपनिषत्सारमाथेतार्थेषु निरंजनविद्यायां

श्रीदत्त – गोरक्षकसंवादे निर्वाणयोगो नाम तृतीयोध्यायः ॥३॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!