दत्तगीता षष्ठोध्यायः

श्रीदत्तगीता – षष्ठोध्यायः

श्रीगणेशाय नमः॥

गोरक्षक उवाच – विद्धिहिकर्परमजिनं कंथा पुण्यापुण्यविवर्जितपंथा ॥

शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥१॥

लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ॥

केवलतत्त्वनिरंतरपूतो वाद – विवादः कथमवधूतः ॥२॥

आशापाशविबंधनमुक्तः शौचाशौचविवर्जितयुक्तः ॥

एवं सर्वविवर्जितभोगी शुद्धनिरंजनसततं स योगी ॥३॥

श्रीदत्तात्रेय उवाच – कथमिह देही देहविचारः कथमिह रागी रागविचारः ॥

निर्मलनिश्वलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ‍ ॥४॥

गगनाकारनिरंतरहंसः तत्वःवितत्वंरहितोहंसः ॥

एवं कथमिह भिन्नविभिन्नं बंध – विबंधविकारविहिनं ॥५॥

वयमिह तत्त्वं विंदति यत्र रूप – विरूपं कथमिह तत्र ॥

गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥६॥

केवलतत्त्वनिरंतरसर्वे योगात्कथमिह गर्वं सत्यम् ‍ ॥

सत्यं संसारसारमसारमेवं कथमिह सारासारम् ‍ ॥७॥

केवलतत्त्वनिरंतरबुद्धं गगनाकारनिरंतरशुद्धम् ‍ ॥

एवं कथमिह संगविसंगं सत्यं कथमिह रंगविरंगम ‍ ॥८॥

योग – वियोगं रहितो योगी भोगविभोगो रहितो भोगी ॥

संततसर्वविवर्जितमुक्तः संततसर्वविवर्जितयुक्तः ॥९॥

एवं कथमिह जीवितमरणं ध्यानाध्याने कथमिह करणम् ‍ ॥१०॥

इंद्रजालमिदं सर्वं यथा मरुमरीचिका ॥

अखंडितमनाकारं वर्तते केवलः शिवः ॥११॥

धर्मादिमोक्षपर्यंतं निरीहाः सर्वथा वयमा ‍ ॥

कथं राग – विरागं च कल्पयंती विपश्चितः ॥१२॥

विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥

समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥१३॥

ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां

श्रीदत्त – गोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोध्यायः ॥६॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!