श्रीदत्तात्रेयप्रार्थना

श्रीदत्तात्रेयप्रार्थना

श्रीपाद श्रीवल्लभ त्वं सदैव ।
श्रीदत्तास्मान्पाहि देवाधिदेव ॥
भावग्राह्य क्लेशहारिन्सुकीर्तें ।
घोरात्कष्‍टादुद्धरास्मान्नमस्ते ।

त्वं नो माता त्वं पिताऽऽतोधिपस्त्वं ।
त्राता योगक्षेमकृत्सद्गुरुस्त्वम्।
त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते ।
घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥

पापं तापं व्याधिमाधिं च दैन्यं।
भितिं क्लेशं त्वं हराशु त्वदैन्यम् ।
त्रातारं नो वीक्ष ईशास्तजूर्ते ।
घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥

नान्यस्त्राता नापि दाता न भर्ता ।
त्वत्तो देव त्वं शरण्योऽकहर्ता ।
कुर्वात्रेयानुग्रहंपूर्णराते ।
घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥

धर्मे प्रीतिं सन्मतिं देवभक्तिं ।
सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानंदमूर्ते ।
घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥

श्र्लोकपंचकमेतद्यो लोकमंगलवर्धनं ॥
प्रपठेन्नियतो भक्तया स श्रीदत्तप्रियो भवेत् ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!