देवी चतुःषष्ट्युपचार पूजास्तोत्र

॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रम् अथवा परा मानिसिका पूजा ॥

ॐ अथ श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।

उषसि मागधमङ्गलगायनैः
झटिति जागृहि जागृहि जागृहि ।
अतिकृपार्द्रकटाक्षनिऱीक्षणैः
जगदिदं जगदम्ब सुखीकुरु ॥ १॥

कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मातः
मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २॥

कनककलशशोभमानशीर्षं
जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव संनिवासहेतोः
मणिमयमन्दिरमेतदर्पयामि ॥ ३॥

तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया
शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४॥

कनकमयवितर्दिस्थापिते तूलिकाढये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेऽस्मिन्
उपविश पदयुग्मं हेमपीठे निधाय ॥ ५॥

मणिमौक्तिकनिर्मितं महान्तं
कनकस्तम्भचतुष्टयेन युक्तम् ।
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि ॥ ६॥

दूर्वया सरसिजान्वितविष्णु-
क्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥ ७॥

गन्धपुष्पयवसर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नैः
अध्यर्मेतदुररीकुरु मातः ॥ ८॥

जलजद्युतिना करेण जाती-
फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतैः
भगवत्याचमनं विधीयताम् ॥ ९॥

निहितं कनकस्य सम्पुटे
पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥ १०॥

एतच्चम्पकतैलमम्ब विविधैः पुष्पैः मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृङ्गैः भ्रमद्भिः वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैः धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११॥

मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैः विशोध्य विशदान्कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२॥

दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः ।
स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ १३॥

एलोशीरसुवासितैः सकुसुमैर्गङ्गादि तीर्थोदकैः
माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात्
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ १४॥

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिः ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५॥

नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके ।
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम् ॥ १६॥

बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७॥

सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८॥

मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९॥

धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
कटयां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २०॥

मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ २१॥

रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२॥

जननि चम्पकतैलमिदं पुरो
मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं
सपदि सर्वमिदं परिगृह्यताम् ॥ २३॥

सीमन्ते ते भगवति मया सादरं न्यस्तमेतत्
सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४॥

मन्दारकुन्दकरवीरलवङ्गपुष्पैः
त्वां देवि सन्ततं अहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५॥

मालतीवकुलहेमपुष्पिका-
काञ्चनारकरवीरकैतकैः ।
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदम्ब ते वपुः ॥ २६॥

पारिजातशतपत्रपाटलैः
मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः ॥ २७॥

लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिः
धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८॥

रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः
दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९॥

मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ ३०॥

सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाह्निकानि
भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१॥

क्षीरमेतदिदंमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
सम्भ्रमेण परिपीयतां मुहुः ॥ ३२॥

उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कुमेन
हस्तौ समुद्वर्तय चन्दनेन ॥ ३३॥

अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४॥

जम्ब्वाम्ररम्भाफलसंयुतानि
द्राक्षाफलक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥ ३५॥

कूश्माण्डकोशातकिसंयुतानि
जम्बीरनारङ्गसमन्वितानि ।
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि ॥ ३६॥

कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७॥

एलालवङ्गादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि ॥ ३८॥

ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।
सौवर्णपात्रनिहितं खदिरेन सार्धं
ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९॥

महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४०॥

सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं var सार्धं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१॥

अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२॥

मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३॥

शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण बीजयामि ॥ ४४॥

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५॥

इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६॥

प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरङ्गः ॥ ४७॥

मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्कणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८॥

द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥ ४९॥

हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत-
द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५०॥

परिघीकृतसप्तसागरं
बहुसम्पत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥ ५१॥ var समर्पितम्
शतपत्रयुतैः स्वभावशीतैः
अतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तैः
व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२॥

भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥ ५३॥

मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला
भगवति ते पुरतो नटन्ति बालाः ॥ ५४॥

भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५॥

डमरुडिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्द्रगडादयः ।
झटिति झाङ्कृतझाङ्कृतझाङ्कृतैः
बहुदयं हृदयं सुखयन्तु ते ॥ ५६॥

विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः ।
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि ॥ ५७॥

अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षनमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचितैर्नृत्तवादित्रगीतैः
भगवति भवदीयं मानसं रञ्जयामि ॥ ५८॥

तव देवि गुणानुवर्णने
चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९॥

पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६०॥

रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६१॥

चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२॥

अथ मणिमयञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि-
न्भगवति भवनेऽस्तु ते निवासः ॥ ६३॥

एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
न्पर्यङ्के कनकमये निषीद मातः ॥ ६४॥

तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५॥

अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६॥

क्षणमथ जगदम्ब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७॥

मुक्ताकुन्देन्दुगौरां मणिमयकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६८॥

एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९॥

पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे ।
ध्रमार्थकामान्पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति ॥ ७०॥

पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१॥

प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् ।
वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
देवीचतुःषष्ट्युपचारपूजास्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!