श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्

श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्

अस्य श्रीदत्तात्रेयअष्टोत्तरशतनामस्तोत्रमन्त्रस्य । ब्रह्माविष्णुमहेश्र्वर ऋषयः । श्रीदत्तात्रेयो देवता । अनुष्टुप् छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ।

अथ ध्यानं ।
दिगम्बरं भस्मसुगंधलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् ।
पद्मासनं योगिमुनीन्द्रवंदितं दत्तात्रेयध्यानमभीष्टसिद्धिदं ॥
इति ध्यानम् ।

अनसूयासुतो दत्तो अत्रिपुत्रो महामुनिः ।
योगीन्द्रः पुण्यपुरुषो देवेशो भुवनेश्र्वरः ॥ १ ॥

वेदांतवेद्यो वरदो विश्र्वरुपोऽव्ययो हरिः ।
सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ २ ॥

दिगम्बरो दिव्यमूर्तिर्दिव्यभूतिविभूषणः । अनादिसिद्धसुलभो भक्तवांछितदायकः ॥ ३ ॥

भुक्तिमुक्तिप्रदात्ता च कार्तवीर्यवरप्रदः ।
एकोनैको न द्वितीयो निगमागमवन्दितः ॥ ४ ॥

सात्तवतानां महात्मा च विश्र्वात्मा विश्र्वतोमुखः । सर्वेश्र्वरः सदातुष्टो सर्वमङ्गलदायकः ॥ ५ ॥

निष्कलंको निराभासो निर्विकल्पो निरञ्जनः । गुणात्मको गुणातीतो ब्रह्माविष्णुशिवात्मकः ॥ ६ ॥

नानारुपधरो नित्यः शान्तो दान्तः कृपानिधिः । भक्तप्रियो भवहरो भगवान् भवनाशनः ॥ ७ ॥

आदिदेवो महादेवो देवेशो जगदिश्र्वरः । परमात्मा परब्रह्म सदानन्दो जगद्गुरुः ॥ ८ ॥

नित्यतृप्तो निराकारो निर्विकारो निराश्रयः । पुरुषोत्तमो लोकनाथो पुराणपुरुषोऽनघः ॥ ९ ॥

अपारमहिमानन्त आद्यन्तरहितः शिवः । संसारभयदावाग्निभवसागरतारकः ॥ १० ॥

श्रीनिवासो विशालाक्षो क्षीराब्धिशयनोऽच्युतः । सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११ ॥

लोकेशः सर्वभूतेशो व्यापकः करुणाकरः । ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२ ॥

नानारुपः क्रियातीतो निस्पृहो निर्मलात्मकः । मयाधीशो महात्मा च महादेवो महेश्र्वरः ॥ १३ ॥

व्याघ्रचर्माम्बरधरो नागकुण्डलभूषणः । सर्वलक्षणसम्पन्नो सर्वसिद्धिप्रदायकः ॥ १४ ॥

सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः । सह्याद्रिघासः सर्वात्मा भवबन्धविमोचनः ॥ १५ ॥

विश्र्वंभरो विश्र्वनाथो जगन्नाथो जगत्प्रभुः । अष्टोत्तरशतं नाम्नां दत्तात्रेयमहामुनेः ॥ १६ ॥

नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते । सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् ॥ १७ ॥

भोगमोक्षप्रदं नृणां दत्तसायुज्यमाप्नुयात् ।
पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ॥ १८ ॥

॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीदत्तात्रेय – अष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!