कात्यायन स्मृतिः

चतुर्विधं उत्तरम्सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश्चैवं उत्तरं स्याच्चतुर्विधम् । । १६५ । ।

श्रुत्वा भाषार्थं अन्यस्तु यदा तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयं उत्तरम् । । १६६ । ।

अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः । । १६७ । ।

साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता । । १६८ । ।

मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः ।
अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् । । १६९ । ।

योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयादाधर्यं गुरुरब्रवीत् । । १७० । ।

आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।
सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते । । १७१ । ।

विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा ।
जितश्चैव मयायं प्राक्प्राङ्न्यायस्त्रिप्रकारकः । । १७२ । ।
उत्तराभासा उत्तरदोषा वाअप्रसिद्धं विरुद्धं यदत्यल्पं अतिभूरि च ।
संदिग्धासंभवाव्यक्तं अन्यार्थं चातिदोषवत् । । १७३ । ।

अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं शस्यते बुधैः । । १७४ । ।

यद्व्यस्तपदं अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं स्वार्थसिद्धये । । १७५ । ।

चिह्नाकारसहस्रं तु समयं चाविजानता ।
भाषान्तरेण वा प्रोक्तं अप्रसिद्धं तदुत्तरम् । । १७६ । ।

प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यदेवं आह विज्ञेयं विरुद्धं तदिहोत्तरम् । । १७७ । ।

जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् ।
पुरा मयायं इति यत्तदूनं चोत्तरं स्मृतम् । । १७८ । ।

गृहीतं इति वाच्ये तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद्द्रव्यं इति यच्चातिभूरि तत् । । १७९ । ।

देयं मयेति वक्तव्ये मयादेयं इतीदृशम् ।
संदिग्धं उत्तरं ज्ञेयं व्यवहारे बुधैस्तदा । । १८० । ।

बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तं एतन्मन्यन्ते तदन्यार्थं इतीरितम् । । १८१ । ।

अस्मै दत्तं मया सार्धं सहस्रं इति भाषिते ।
प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् । । १८२ । ।

पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् ।
मया गृहीतं पूर्वं नो तद्व्यस्तपदं उच्यते । । १८३ । ।

तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति ।
निगूढार्थं तु तत्प्रोक्तं उत्तरं व्यवहारतः । । १८४ । ।

किं तेनैव सदा देयं मया देयं भवेदिति ।
एतदकुलं इत्युक्तं उत्तरं तद्विदो विदुः । । १८५ । ।

काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् ।
असारं इति तत्त्वेन सम्यङ्नोत्तरं इष्यते । । १८६ । ।

प्रस्तुतादल्पं अव्यक्तं न्यूनाधिकं असङ्गतम् ।
अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् । । १८७ । ।

संदिग्धं अन्यत्प्रकृतादत्यल्पं अतिभूरि च ।
पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् । । १८८ । ।

पक्षैकदेशे यत्सत्यं एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् । । १८९ । ।

न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।
न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् । । १९० । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!