कात्यायन स्मृतिः

लेख्यम्लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः । । २४९ । ।

ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् ।
स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः । । २५० । ।

उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् ।
स्मरत्येवं प्रयुक्तस्य नश्येदर्थस्त्वलेखितः । । २५१ । ।

लेख्यं तु साक्षिमत्कार्यं अविलुप्ताक्षरक्रमम् ।
देशाचारस्थितियुतं समग्रं सर्ववस्तुषु । । २५२ । ।

वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् । । २५३ । ।

चात्रुविद्यपुरश्रेणी गणपौरादिकस्थितिः ।
तत्सिध्यर्थं तु यल्लेख्यं तद्भवेत्स्थितिपत्रकम् । । २५४ । ।

अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् । । २५५ । ।

उत्तमेषु समस्तेषु अभिशापे समागते ।
वृत्तानुवादलेख्यं यत्तज्ज्ञेयं सन्धिपत्रकम् । । २५६ । ।

सीमाविवादे निर्णीते सीमापत्रं विधीयते । । २५७ । ।

राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् । । २५८ । ।

अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक्तथा ।
निर्णयश्च यथा तस्य यथा चावधृतं स्वयम् । । २५९ । ।

एतद्यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् ।
अभियोक्तृअभियुक्तानां वचनं प्राङ्निवेशयेत् । । २६० । ।

सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ।
निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् । । २६१ । ।

सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः । । २६२ । ।

सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविध्हौ तद्वत्स्वहस्तं तत्र दापयेत् । । २६३ । ।

अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः ।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते । । २६४ । ।

अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते ।
वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् । । २६५ । ।
लेख्यपरीक्षाराजाज्ञया समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः । । २६६ । ।

वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् । । २६७ । ।

देशाचारयुतं वर्षं आसपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानां हस्ताङ्गं लेख्यं उच्यते । । २६८ । ।

स्थानभ्रष्टास्त्वपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः ।
यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् । । २६९ । ।

देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् ।
कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति । । २७० । ।

मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति । । २७१ । ।

ख्यापितं चेद्द्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् ।
तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते । । २७२ । ।

साक्षिदोषाद्भवेद्दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्योपधादोषात्तथा धारणिकस्य वा । । २७३ । ।

दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् ।
तत्पत्रं उपधादुष्टैः साक्षिलेखककारकैः । । २७४ । ।

प्रमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना ।
गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् । । २७५ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!