कात्यायन स्मृतिः

साक्षिलेखककर्तारः कूटतां यान्ति ते यथा ।
तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यात । । २७६ । ।

न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् । । २७७ । ।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते । । २७८ । ।

एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ।
विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् । । २७९ । ।

येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् । । २८० । ।

धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् । । २८१ । ।

दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते ।
पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा । । २८२ । ।

कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः ।
दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् । । २८३ । ।

त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः । । २८४ । ।

अथ पञ्चत्वं आपन्नो लेखकः सह साक्षिभिः ।
तत्स्वहस्तादिभिस्तेषां विशुध्येत्तु न संशयः । । २८५ । ।

ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः । । २८६ । ।

समुद्रेऽपि लेख्ये मृताः सर्वेऽपि ते स्थिताः (?) ।
लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु च । । २८७ । ।

प्रत्यक्षं अनुमानेन न कदाचित्प्रबाध्यते ।
तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् । । २८८ । ।

निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् ।
लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् । । २८९ । ।

कूटोक्तौ साक्षिणां वाक्याल्लेखकस्य च पत्रकम् ।
नयेच्छुद्धिं न यः कूटं स दाप्यो दमं उत्तमम् । । २९० । ।

आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् ।
शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतां इयात् । । २९१ । ।

लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु । । २९२ । ।

प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
नैव याचेत ऋणिकं न तत्सिद्धिं अवाप्नुयात् । । २९३ । ।

पश्चात्कारनिबद्धं यत्तद्यत्नेन विचारयेत् ।
यदि स्याद्युक्तियुक्तं तु प्रमाणं लिखितं तदा । । २९४ । ।

अन्यथा दूरतः कार्यं पुनरेव विनिर्णयेत् ।
अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ।
निवर्त्यं तत्प्रमाणं स्याद्यत्नेनापि कृतं नृपैः । । २९५ । ।

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।
राज्ञः स्वहस्तसंशुद्धं शुद्धिं आयाति शासनम् । । २९६ । ।

निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिं आप्नुयात् । । २९७ । ।

दृष्टे पत्रे स्फुटान्दोषान्नोक्तवानृणिको यदि ।
ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् । । २९८ । ।

शक्तस्य संनिधावर्थे येन लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम् । । २९९ । ।

अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितम् ।
तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता । । ३०० । ।

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः । । ३०१ । ।

आधानसहितं यत्र ऋणं लेख्ये निवेशितम् ।
मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः । । ३०२ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!