कात्यायन स्मृतिः
प्राप्तं वानेन चेत्किञ्चिद्दानं चाप्यनिरूपितम् ।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् । । ३०३ । ।
यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् ।
प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः । । ३०४ । ।
दर्शितं प्रतिकालं यद्ग्राहितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु । । ३०५ । ।
न दिव्यैः साक्षिभिर्वापि हीयते लिखितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्यतो नान्येन हीयते । । ३०६ । ।
तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् । । ३०७ । ।
दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते ।
तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः । । ३०८ । ।
द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते ।
छन्नं अन्येन चारूढं संयतं चान्यवेश्मनि । । ३०९ । ।
दत्ते वृत्तेऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके ।
एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये । । ३१० । ।
स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः । । ३११ । ।
मलैर्यद्भेदितं दग्धं छिद्रितं वीतं एव वा ।
तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा । । ३१२ । ।
भुक्तिःलिखितं साक्षिणो भुक्तिः प्रमाणत्रयं इष्यते ।
प्रमाणेषु स्मृता भुक्तेः सल्लेखसमता नृणाम् । । ३१३ । ।
रथ्यानिर्गमनद्वार जलवाहादिसंशये ।
भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः । । ३१४ । ।
अनुमानाद्गुरुः सक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी । । ३१५ । ।
नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः । । ३१६ । ।
भुक्तिस्तु द्विविधा प्रोक्ता सागमानागमा तथा ।
त्रिपुरुषी या स्वतन्त्रा सा चेदल्पा तु सागमा । । ३१७ । ।
मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।
त्रिभिरेतैरविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता । । ३१८ । ।
सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् ।
आहर्ता लभते तत्तु नापहार्यं तु तत्क्वचित् । । ३१९ । ।
प्रनष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि । । ३२० । ।
स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।
अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता । । ३२१ । ।
आदौ तु कारणं मध्ये भुक्तिस्तु सागमा (?) ।
कारणं भुक्तिरेवैका संतता या त्रिपौरुषी । । ३२२ । ।
आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान्विशोधयेत् ।
तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् । । ३२३ । ।
येनोपात्तं हि यद्द्रव्यं सोऽभियुक्तस्तदुद्धरेत् ।
चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते । । ३२४ । ।
चिरन्तनं अविज्ञातं भोगं लोभान्न चालयेत् । । ३२५ । ।
पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् । । ३२६ । ।
त्रिभिरेव तु या भुक्ता पुरुषैर्भू यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् । । ३२७ । ।
यथा क्षीरं जनयति दधि कालाद्रसान्वितम् ।
दानहेतुस्तथा कालाद्भोगस्त्रिपुरुषागतः । । ३२८ । ।
भुक्तिर्बलवती शास्त्रे संतता या चिरन्तनी ।
विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता । । ३२९ । ।
न भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् । । ३३० । ।
ब्रह्मचरी चरेत्कश्चिदव्रतं षट्त्रिंशदाब्दिकम् ।
अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः । । ३३१ । ।
समावृत्तोऽव्रती कुर्यात्स्वधनान्वेषणं ततः ।
पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः । । ३३२ । ।
प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः ।
शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः । । ३३३ । ।
सुहृद्भिर्बन्धुभिश्चैषां यत्स्वं भुक्तं अपश्यताम् ।
नृपापराधिनां चैव न तत्कालेन हीयते । । ३३४ । ।
सनाभिभिर्बान्धवैश्च यद्भुक्तं स्वजनैस्तथा ।
भोगात्तत्र न सिद्धिः स्याद्भोगं अन्यत्र कल्पयेत् । । ३३५ । ।