कात्यायन स्मृतिः

युक्तिःअर्थिनाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् ।
त्रिचतुःपञ्चकृत्वो वा परस्तदृणी भवेत्(?) । । ३३६ । ।

दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या ।
चित्तापनयनं चैव हेतवो हि विभावकाः । । ३३७ । ।

एषां अन्यतमो यत्र वादिना भावितो भवेत् ।
मूलक्रिया तु तत्र स्याद्भाविते वादिनिह्नवे । । ३३८ । ।
साक्षिणःन कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः । । ३३९ । ।

उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् ।
साक्षिभिर्भाषितं वाक्यं सभ्यैः सह परीक्षयेत् । । ३४० । ।

सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं स्यात्सद्यः स्पष्टं विवादयेत् । । ३४१ । ।

सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ ।
प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् । । ३४२ । ।

यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।
तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता । । ३४३ । ।

देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।
उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् । । ३४४ । ।

आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् । । ३४५ । ।

अर्थिप्रत्यर्थिसांनिध्यादनुभूतं तु यद्भवेत् ।
तद्ग्राह्यं साक्षिणो वाक्यं अन्यथा न बृहस्पतिः । । ३४६ । ।

प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः ।
आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यं असंशयम् । । ३४७ । ।

विभाव्यो वादिना यादृक्सदृशैरेव भावयेत् ।
नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा । । ३४८ । ।

लिङ्गिनः श्रेणिपूगाश्च वणिग्व्रातास्तथापरे ।
समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भृगुः । । ३४९ । ।

दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।
प्रत्येकैकं समूहानां नायका वर्गिणस्तथा ।
तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः । । ३५० । ।

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।
शूद्राश्च सन्तः शूद्राणां अन्त्यानां अन्त्ययोनयः । । ३५१ । ।

अशक्य आगमो यत्र विदेशप्रतिवासिनाम् ।
त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् । । ३५२ । ।

अभ्यन्तरस्तु निक्षेपे साक्ष्यं एकोऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्येकोऽपि दूतकः । । ३५३ । ।

संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे तत्र कीर्तितः । । ३५४ । ।

लेखकः प्राङ्विवाकश्च सभ्याश्चैवानुपूर्वशः ।
नृपे पश्यति यत्कार्यं साक्षिणः समुदाहृताः । । ३५५ । ।

अन्ये पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश्च प्राङ्विवाकश्च राजा च व्यवहारिणाम् । । ३५६ । ।

कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः ।
कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः । । ३५७ । ।

रिक्थभागविवादे तु संदेहे समुपस्थिते ।
कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये । । ३५८ । ।

साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना ।
तेषां एकोऽन्यथावादी भेदात्सर्वे न साक्षिणः । । ३५९ । ।

अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् ।
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् । । ३६० । ।

तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः । । ३६१ । ।

मातृष्वसृसुताश्चैव सोदर्यासुतमातुलाः ।
एते सनाभयस्तूक्ताः साक्ष्यं तेषु न योजयेत् । । ३६२ । ।

कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः ।
पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा । । ३६३ । ।

नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।
वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः । । ३६४ । ।

ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता । । ३६५ । ।

व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।
स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः । । ३६६ । ।

अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् ।
एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः । । ३६७ । ।

न साक्ष्यं साक्षिभिर्वाच्यं अपृष्टैरर्थिना सदा ।
न साक्ष्यं तेषु विद्येत स्वयं आत्मनि योजयेत् । । ३६८ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!