कात्यायन स्मृतिः

लेख्यारूढश्चोत्तरश्च साक्षी मार्गद्वयान्वितः । । ३६९ । ।

अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु ।
न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् । । ३७० । ।

अर्थिना स्वयं आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकादृते । । ३७१ । ।

यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते । । ३७२ । ।

प्रयोजनार्थं आनीतः प्रसङ्गादागतश्च यः ।
द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ । । ३७३ । ।

अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते । । ३७४ । ।

साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषते ।
श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः । । ३७५ । ।

उल्लप्यं यस्य विश्रम्भात्कार्यं वा विनिवेदितम् ।
गूढचारी स विज्ञेयः कार्यं अध्यगतस्तथा । । ३७६ । ।

अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी च मृतो यत्र तत्राप्येवं प्रकल्प्यते । । ३७७ । ।
साक्षिदोषोद्भावनम्लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् । । ३७८ । ।

उक्तेरर्थे साक्षिणो यस्तु दूषयेत्प्राग्दूषितान् ।
न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् । । ३७९ । ।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते । । ३८० । ।

प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने ।
प्रस्तुतार्थोपयोगित्वाद्व्यवहारान्तरं न च । । ३८१ । ।

साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान्सर्वान्वाच्यः प्रत्युत्तरं ततः । । ३८२ । ।

प्रतिपत्तौ तु साक्षित्वं अर्हन्ति न कदाचन ।
अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना । । ३८३ । ।

अभावयन्धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः । । ३८४ । ।

आकारोऽङ्गितचेष्टाभिस्तस्य भावं विभावयेत् ।
प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते । । ३८५ । ।

कम्पः स्वेदोऽथ वैकल्यं ओष्ठशोषाभिमर्शने ।
भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् ।
स्वरभेदश्च दुष्टस्य चिह्नान्याहुर्मनीषिणः । । ३८६ । ।

सभान्तःस्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु । । ३८७ । ।

अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ ।
प्रत्यक्षं देशयेत्सक्ष्यं परोक्षं न कथंचन । । ३८८ । ।

अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् ।
चतुष्पदेष्वयं धर्मो द्विपदस्थावरेषु च । । ३८९ । ।

तौल्यगणिममेयानां अभावेऽपि विवादयेत् ।
क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा । । ३९० । ।

वधे चेत्प्राणिनां साक्ष्यं वादयेच्छिवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् । । ३९१ । ।

स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः । । ३९२ । ।

स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।
अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् । । ३९३ । ।

समवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव तु ।
विभिन्नैकैककार्यं यद्वक्तव्यं तत्पृथक्पृथक् । । ३९४ । ।

भिन्नकाले तु यत्कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत्तत्र भिन्नकालं तु तद्भृगुः । । ३९५ । ।

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति । । ३९६ । ।

साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्पितम् । । ३९७ । ।

ऊनाधिकं तु यत्र स्यात्तत्साक्ष्यं तत्र वर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्यादब्रुवन्दण्डं अर्हति । । ३९८ । ।

देशं कालं धनं संख्यां रूपं जात्याकृती वयः ।
विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः । । ३९९ । ।

निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत् । । ४०० । ।

ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः ।
तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः । । ४०१ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!