कात्यायन स्मृतिः
दिव्यदेशाःइन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् । । ४३४ । ।
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः । । ४३५ । ।
कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद्दिव्यं विधिरेष विपर्यये । । ४३६ । ।
अदेशकालदत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः । । ४३७ । ।
साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि ।
दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् ।
मूर्खैर्लुब्धैश्च दुष्टैश्च पुनर्देयानि तानि वै । । ४३८ । ।
तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः ।
अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने । । ४३९ । ।
शिक्यच्छेदे तुलाभङ्गे तथा वापि गुणस्य वा ।
शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् । । ४४० । ।
अग्निदिव्यविधिःप्रस्खलत्यभियुक्तश्चेत्स्थानादन्यत्र दह्यते ।
न दग्धं तु विदुर्देवास्तस्य भूयोऽपि दापयेत् । । ४४१ । ।
उदकदिव्यविधिःशरांस्त्वनायसैरग्रैः प्रकुर्वीत विशुद्धये ।
वेणकाण्डमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत् । । ४४२ । ।
क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्वागमः कार्यः पुमानन्यो जले विशेत् । । ४४३ । ।
शिरोमानं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तं अपि निर्दिशेत् । । ४४४ । ।
निमज्ज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिभिर्नरः ।
पुनस्तत्र निमज्जेत्स देशचिह्नविभाविते । । ४४५ । ।
विषदिव्यविधिःअजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् ।
भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् । । ४४६ । ।
रक्तं तदसितं कुर्यात्कटिनं चैव तल्लक्षणात् ।
अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः । । ४४७ । ।
वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः ।
शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् । । ४४८ । ।
मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यं एवं समाख्यातं लक्षणं धर्मसाधकैः । । ४४९ । ।
पूर्वाह्णे शीतले देशे विषं दद्यात्तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु । । ४५० । ।
विषस्य पलषड्भागाद्भागो विंशतिं अस्तु यः ।
तं अष्टभागहीनं शोध्ये देयं घृताप्लुतम् । । ४५१ । ।
कोशदिव्यविधिःस्वल्पेऽपराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा । । ४५२ । ।
तण्डुलविधिःदेवतास्नानपानीय दिव्ये तण्डुलभक्षणे ।
शुद्धनिष्ठीवनाच्शुद्धो नियम्योऽशुचिरन्यथा । । ४५३ । ।
अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः ।
सदण्डं अभियोगं च दापयेदभियोजकम् ।
दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः । । ४५४ । ।
शोणितं दृश्यते यत्र हनुवालं च सीदति ।
गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् । । ४५५ । ।
अथ दैवविसंवादात्त्रिसप्ताहात्तु दापयेत् ।
अभियुक्तं तु यत्नेन तं अर्थं दण्डं एव च । । ४५६ । ।
तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः । । ४५७ । ।
क्षयातिसारविस्फोटास्ताल्वस्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ।
शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् । । ४५८ । ।
शतार्धं दापयेच्शुद्धं अशुद्धो दण्डभाग्भवेत् । । ४५९ । ।
विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् । । ४६० । ।
सहस्रं षट्शतं चैव तथा पञ्च शतानि च ।
चतुस्त्रिद्व्येकं एवं च हीनं हीनेषु कल्पयेत् । । ४६१ । ।