कात्यायन स्मृतिः

शपथविधिःयत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः । । ४६२ । ।

आचतुर्दशकादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः । । ४६३ । ।
उन्मत्तास्वतन्त्रादिकृतानां विचारःउन्मत्तेनैव मत्तेन तथा
भावान्तरेण वा ।
यद्दत्तं यत्कृतं वाथ प्रमाणं नैव तद्भवेत् । । ४६४ । ।

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।
न भर्त्रा विवदेतान्यो भीतोन्मत्तकृतादृते । । ४६५ । ।

पितास्वतन्त्रः पितृमान्भ्राता भातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः कर्मकरस्तथा । । ४६६ । ।

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः । । ४६७ । ।

प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं ते कुर्वन्तोऽप्यनुमोदिताः । । ४६८ । ।

क्षेत्रादीणां तथैव स्युर्भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता । । ४६९ । ।

निसृष्टार्थस्तु यो यस्मिन्तस्मिन्नर्थे प्रभुस्तु सः ।
तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुं अर्हति । । ४७० । ।

सुतस्य सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः । । ४७१ । ।
निर्णयकृत्यम्शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता ।
प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता । । ४७२ । ।

अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितं धनम् । । ४७३ । ।

सर्वापलापं यः कृत्वा मिथोऽल्पं अपि संवदेत् ।
सर्वं एव तु दाप्यः स्यादभियुक्तो बृहस्पतिः । । ४७४ । ।

एवं धर्मासनस्थेन समेनैव विवादिना ।
कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा । । ४७५ । ।

व्यवहारान्स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः ।
जयपत्रं ततो दद्यात्परिज्ञानाय पार्थिवः । । ४७६ । ।
दण्डविधिःराजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् । । ४७७ । ।

रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् ।
वणिजः कर्षकांश्चापि शिल्पिनश्चाब्रवीद्भृगुः । । ४७८ । ।

धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते । । ४७९ । ।

कर्षकान्क्षत्रविश्शूद्रान्समीहानांस्तु दापयेत् । । ४८० । ।

आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च ।
एतेषां अपराधेषु दण्डो नैव विधीयते । । ४८१ । ।

प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् ।
दण्डस्तत्र तु नैव स्यादेष धर्मो भृगुस्मृतः । । ४८२ । ।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।
राष्ट्राच्चैनं बहिः कुर्यात्समग्रधनं अक्षतम् । । ४८३ । ।

चतुर्णां अपि वर्णानां प्रायश्चित्तं अकुर्वताम् ।
शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् । । ४८४ । ।

येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् । । ४८५ । ।

प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।
वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् । । ४८६ । ।

सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः ।
तदर्धं योषितो दद्युर्वधे पुंसोऽङ्ग कर्तनम् । । ४८७ । ।

नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यति ।
प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् । । ४८८ । ।

प्रोषितस्वामिका नारी प्रापिता यद्यपि ग्रहे ।
तावत्सा बन्धने स्थाप्या यावत्प्रत्यागतः प्रभुः । । ४८९ । ।

कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि । । ४९० । ।

माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः ।
अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् । । ४९१ । ।

यत्रोक्तो माषकैर्दण्डो राजतं तत्र निर्दिशेत ।
कृष्णलैश्चोक्तं एव स्यादुक्तदण्डविनिश्चयः । । ४९२ । ।

माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागा माषकस्य पणस्य च । । ४९३ । ।

पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी ।
कार्षापणोण्डिका ज्ञेयास्ताश्चतस्रस्तु धानकः ।
ते द्वादश सुवर्णास्तु दीनारश्चित्रकः स्मृतः । । ४९४ । ।
पुनर्न्यायःअसत्सदिति यः पक्षः सभ्यैरेवावधार्यते ।
तीरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रकीर्तितः । । ४९५ । ।

कुलादिभिर्निश्चितेऽपि सन्तोषं न गतस्तु यः ।
विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् । । ४९६ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!