कात्यायन स्मृतिः
ऋणादाने वृद्धिविचारःन स्त्रीभ्यो दासबालेभ्यः
प्रयच्छेत्क्वचिदुद्धृतम् ।
दाता न लभते तत्तु तेभ्यो दद्यात्तु यद्वसु । । ४९७ । ।
ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या कारिता तु सा ।
अन्यथा कारिता वृद्धिर्न दातव्या कथंचन । । ४९८ । ।
एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् ।
प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता । । ४९९ । ।
गृहात्तोषः फलं क्षेत्राद्भोगलाभः प्रकीर्तितः । । ५०० । ।
आधिभोगस्त्वशेषो यो वृद्धिस्तु परिकल्पितः ।
प्रयोगो यत्र चैवं स्यादाधिभोगः स उच्यते । । ५०१ । ।
आकृतवृद्धिःयो याचितकं आदाय तं अदत्त्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिं आप्नुयात् । । ५०२ । ।
कृत्वोद्धारं अदत्त्वा यो याचितस्तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिं आप्नुयात् । । ५०३ । ।
स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् ।
तं ततोऽकारितां वृद्धिं अनिच्छन्तं च दापयेत् । । ५०४ । ।
प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् ।
याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् । । ५०५ । ।
निक्षिप्तं वृद्धिशेषं च क्रयविक्रयं एव च ।
याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् । । ५०६ । ।
पण्यं गृहीत्वा यो मूल्यं अदत्त्वैव दिशं व्रजेत् ।
ऋतुत्रयस्यापरिष्टात्तद्धनं वृद्धिं आप्नुयात् । । ५०७ । ।
चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात्प्रातिभाव्यागतेषु च । । ५०८ । ।
वृद्धेः परिमाणंग्राह्यं स्याद्द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा ।
लभते चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् । । ५०९ । ।
मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।
तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च । । ५१० । ।
तैलानां चैव सर्वेषां मद्यानां अथ सर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च । । ५११ । ।
कुप्यं पञ्चगुणं भूमिस्तथैवाष्टगुणा मता ।
सद्य एवेति वचनात्सद्य एव प्रदीयते । । ५१२ । ।
ऋणोद्धरणं अनेकर्णसमवाये विधिःएकाहे लिखितं यत्तु
तत्तु कुर्यादृणं समम् ।
ग्रहणं रक्षणं लाभं अन्यथा तु यथाक्रमम् । । ५१३ । ।
नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् ।
तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु । । ५१४ । ।
यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।
तद्द्रव्यं ऋणिकेनैव दातव्यं तस्य नान्यथा । । ५१५ । ।
आधिःद्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।
जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते ।
मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकं आप्नुयात् । । ५१६ । ।
आधिं एकं द्वयोर्यस्तु कुर्यात्का प्रतिपद्भवेत् ।
तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् । । ५१७ । ।
आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा ।
एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् । । ५१८ । ।
अनिर्दिष्टं च निर्दिष्टं एकत्र च विलेखितम् ।
विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् । । ५१९ । ।
योऽविद्यमानं प्रथमं अनिर्दिष्टस्वरूपकम् ।
आकाशभूतं आदध्यादनिर्दिष्टं च तद्भवेत् ।
यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् । । ५२० । ।
यस्तु सर्वस्वं आदिश्य प्राक्पश्चान्नामचिह्नितम् ।
आदध्यात्तत्कथं न स्याच्चिह्नितं बलवत्तरम् । । ५२१ । ।
मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् ।
ग्रामादयश्च लिख्यन्ते तदा सिद्धिं अवाप्नुयात् । । ५२२ । ।
आधीकृतं तु यत्किंचिद्विनष्टं दैवराजतः ।
तत्र ऋणं सोदयं दाप्यो धनिनां अधमर्णकः । । ५२३ । ।
न चेद्धनिकदोषेण निपतेद्वा म्रियेत वा ।
आधिं अन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः । । ५२४ । ।
अकामं अननुज्ञातं अधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः । । ५२५ । ।
यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद्भत्सयेच्चैव प्राप्नुयात्पूर्वसाहसम् । । ५२६ । ।
बलादकामं यत्राधिं अनिसृष्टं प्रवेशयेत् ।
प्राप्नुयात्साहसं पूर्वं आधाता चाधिं आप्नुयात् । । ५२७ । ।
आधिं दुष्टेन लेख्येन भुङ्क्ते यं ऋणिकाद्धनी ।
नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् । । ५२८ । ।
आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् ।
राज्ञस्ततः स विख्यातो विक्रेय इति धारणा ।
सवृद्धिकं गृहीत्वा तु शेषं राजन्यथार्पयेत् । । ५२९ । ।