कात्यायन स्मृतिः

प्रतिभूविधानम्दानोपस्थानवादेषु विश्वासशपथाय च ।
लग्नकं कारयेदेवं यथायोगं विपर्यये । । ५३० । ।

दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् ।
निबन्धं आवहेत्तत्र दैवराजकृतादृते । । ५३१ । ।

नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् । । ५३२ । ।

काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् ।
स तं अर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते । । ५३३ । ।

गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् ।
विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः । । ५३४ । ।

यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
अदर्शयन्स तं तस्मै प्रयच्छेत्स्वधनादृणम् । । ५३५ । ।

आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा । । ५३६ । ।

एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न बृहस्पतिः । । ५३७ । ।

एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः । । ५३८ । ।

प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।
त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति । । ५३९ । ।

यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् । । ५४० । ।

सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् ।
अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् । । ५४१ । ।
पित्रादिभिः कृतं ऋणं केन प्रतिदेयम्कुटुम्बार्थं अशक्तेन गृहीतं
व्याधितेन वा ।
उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् । । ५४२ । ।

कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः । । ५४३ । ।

ऋणं पुत्रकृतं पित्रा न देयं इति धर्मतः ।
देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् । । ५४४ । ।

प्रोषितस्यामतेनापि कुटुम्बार्थं ऋणं कृतम् ।
दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः । । ५४५ । ।

भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् ।
ऋणं एवंविधं देयं नान्यथा तत्कृतं स्त्रिया । । ५४६ । ।

मर्तुकामेन या भर्त्रा प्रोक्ता देयं ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् । । ५४७ । ।

विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा ।
विंशात्संवत्सराद्देयं ऋणं पितृकृतं सुतैः । । ५४८ । ।

व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणं एवंविधं पुत्राञ् जीवतां अपि दापयेत् । । ५४९ । ।

सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः । । ५५० । ।

पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् ।
विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् । । ५५१ । ।

नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् ।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथा । । ५५२ । ।

अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् । । ५५३ । ।

यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
सदोषं व्याहतं पित्रा नैव देयं ऋणं क्वचित् । । ५५४ । ।

पित्रा दृष्टं ऋणं यत्तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः । । ५५५ । ।

पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः ।
तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् । । ५५६ । ।

ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः ।
द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् । । ५५७ । ।

यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् ।
तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा । । ५५८ । ।

पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते । । ५५९ । ।

पुत्राभावे तु दातव्यं ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते । । ५६० । ।

प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् ।
पुत्रेणापि समं देयं ऋणं सर्वत्र पैतृकम् । । ५६१ । ।

रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।
पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् । । ५६२ । ।

यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः ।
सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः । । ५६३ । ।

लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् । । ५६४ । ।

यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् । । ५६५ । ।

स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः । । ५६६ । ।

निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः ।
तत्स्त्रीणां उपभोक्ता तु दद्यात्तदृणं एव हि । । ५६७ । ।

शौण्डिकव्याधजनक गोपनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् । । ५६८ । ।

न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः । । ५६९ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!