कात्यायन स्मृतिः
अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् । । ५७० । ।
अमतेनैव पुत्रस्य प्रधना यान्यं आश्रयेत् ।
पुत्रेणैवापहार्यं तद् धनं दुहितृभिर्विना । । ५७१ । ।
ऋणार्थं आहरेत्तन्तुं न सुखार्थं कदाचन ।
अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् । । ५७२ । ।
या स्वपुत्रं तु जह्यात्स्त्री समर्थं अपि पुत्रिणी ।
आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः । । ५७३ । ।
बालपुत्राधिकार्था च भर्तारं यान्यं आश्रिता ।
आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः । । ५७४ । ।
दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् ।
जीवतां अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः । । ५७५ । ।
व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते ।
द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् । । ५७६ । ।
पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् ।
योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः । । ५७७ । ।
देयं भार्याकृतं ऋणं भर्त्रा पुत्रेण मातृकम् ।
भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् । । ५७८ । ।
देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् ।
कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् । । ५७९ । ।
अधर्मणिकस्यावरोधादिना धनोद्धारविचार
धार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि ।
यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा । । ५८० । ।
विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् । । ५८१ । ।
स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः । । ५८२ । ।
यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् ।
स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः । । ५८३ । ।
न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।
सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा । । ५८४ । ।
पीडनेनोपरोधेन साधयेदृणिकं धनी ।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः । । ५८५ । ।
आददीतार्थं एवं तु व्याजेनाचरितेन च ।
कर्मणा क्षत्रविश्शूद्रान्समहीनांश्च दापयेत् । । ५८६ । ।
राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् । । ५८७ । ।
वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः ।
देशाचारेण दाप्याः स्युर्दुष्टान्संपीड्य दापयेत् । । ५८८ । ।
पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् । । ५८९ । ।
यदि ह्यादावनादिष्टं अशुभं कर्म कारयेत् ।
प्राप्नुयात्साहसं पूर्वं ऋणान्मुच्येत चर्णिकः । । ५९० । ।
उद्धारादिकं आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे । । ५९१ । ।
उपनिधिःत्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् ।
वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः । । ५९२ । ।
निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् ।
दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते । । ५९३ । ।
यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा ।
तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना । । ५९४ । ।
याचितानन्तरं नाशे दैवराजकृतेऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः । । ५९५ । ।
न्यासादिकं परद्रव्यं प्रभक्षितं उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् । । ५९६ । ।
भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यं अज्ञाननाशितम् । । ५९७ । ।
अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते । । ५९८ । ।
ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते । । ५९९ । ।