कात्यायन स्मृतिः
ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् ।
तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यं आहरेत् । । ६०० । ।
ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते । । ६०१ । ।
सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः । । ६०२ । ।
यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् । । ६०३ । ।
न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् ।
दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् । । ६०४ । ।
स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् ।
पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः । । ६०५ । ।
यदि तत्कार्यं उद्दिश्य कालं परिनियम्य वा ।
याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते । । ६०६ । ।
प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् ।
तस्मिन्नष्टे वापि ग्रहीता मूल्यं आहरेत् । । ६०७ । ।
याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् । । ६०८ । ।
अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् । । ६०९ । ।
यो याचितकं आदाय न दद्यात्प्रतियाचितः ।
स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः । । ६१० । ।
अनुमार्गेण कार्येषु अन्यस्मिन्वचनान्मम ।
दद्यास्त्वं इति यो दत्तः स इहान्वाधिरुच्यते । । ६११ । ।
अस्वामिविक्रयःअस्वामिविक्रयं दानं आधिं च विनिवर्तयेत् । । ६१२ । ।
अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् ।
पश्चादात्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः । । ६१३ । ।
नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् । । ६१४ । ।
प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् ।
मूलानयनकालस्तु देयो योजनसंख्यया । । ६१५ । ।