कात्यायन स्मृतिः
प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी । । ६१६ । ।
यदा मूलं उपन्यस्य पुनर्वादी क्रयं वदेत् ।
आहरेन्मूलं एवासौ न क्रयेण प्रयोजनम् । । ६१७ । ।
असमाहार्यमूलस्तु क्रयं एव विशोधयेत् ।
विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन । । ६१८ । ।
अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः । । ६१९ । ।
यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डं अर्हति । । ६२० । ।
वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः ।
अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः । । ६२१ । ।
स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् ।
अर्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः । । ६२२ । ।
अविज्ञातक्रयो दोषस्तथा चापरिपालनम् ।
एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः । । ६२३ । ।
सम्भूयसमुत्थानम्समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा ।
अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् । । ६२४ । ।
भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् ।
कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः । । ६२५ । ।
प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः । । ६२६ । ।
बहूनां संमतो यस्तु दद्यादेको धनं नरः ।
ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् । । ६२७ । ।
ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा । । ६२८ । ।
स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि ।
देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च । । ६२९ । ।
समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न च याचेत यः कश्चिल्लाभात्स परिहीयते । । ६३० । ।
चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् ।
तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः । । ६३१ । ।
शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान्हरेयुस्ते यथोत्तरम् । । ६३२ । ।
परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् ।
राज्ञो दशांशं उद्धृत्य विभजेरन्यथाविधि । । ६३३ । ।
चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् ।
शूरोऽंशांस्त्रीन्समर्थो द्वौ शोषास्त्वेकैकं एव च । । ६३४ । ।
तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः । । ६३५ । ।
नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।
तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः ।
प्रमुखा द्व्यंशं अर्हन्ति सोऽयं संभूय कुर्वताम् । । ६३६ । ।
वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषां एष निर्णयः । । ६३७ । ।