कात्यायन स्मृतिः
दत्तानपाकर्म दत्ताप्रदानिकं वाविक्रयं चैव दानं च न नेयाः
स्युरनिच्छवः ।
दाराः पुत्राश्च सर्वस्वं आत्मनैव तु योजयेत् । । ६३८ । ।
आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः । । ६३९ । ।
सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा । । ६४० । ।
अतश्च सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः । । ६४१ । ।
स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् । । ६४२ । ।
प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।
कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते । । ६४३ । ।
अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता । । ६४४ । ।
भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः । । ६४५ । ।
प्राणसंशयं आपन्नं यो मां उत्तारयेदितः ।
सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् । । ६४६ । ।
कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् । । ६४७ । ।
या तु कार्यस्य सिद्ध्यर्थं उत्कोचा स्यात्प्रतिश्रुता ।
तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन । । ६४८ । ।
अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् ।
दण्डं चैकादशगुणं आहुर्गार्गीयमानवाः । । ६४९ । ।
स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् ।
दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् । । ६५० । ।
प्राप्तं एतैस्तु यत्किंचित्तदुत्कोचाख्यं उच्यते ।
न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् । । ६५१ । ।
नियुक्तो यस्तु कार्येषु स चेदुत्कोचं आप्नुयात् ।
स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् । । ६५२ । ।
अनियुक्तस्तु कार्यार्थं उत्कोचं यं अवाप्नुयात् ।
कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते । । ६५३ । ।
स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः । । ६५४ । ।
योगाधमनविक्रीतं योगदानपतिग्रहम् ।
यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् । । ६५५ । ।
भृतावनिश्चितायां तु दशभागं अवाप्नुयात् ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः । । ६५६ । ।
वेतनस्यानपाकर्मकर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् ।
बलात्कारयितव्योऽसौ अकुर्वन्दण्डं अर्हति । । ६५७ । ।
विघ्नयन्वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् । । ६५८ । ।
न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा । । ६५९ । ।
त्यजेत्पथि सहायं यः श्रान्तं रोगार्तं एव वा ।
प्राप्नुयात्साहसं पूर्वं ग्रामे त्र्यहं अपालयन् । । ६६० । ।
यदा तु पथि तद्भाण्डं आसिध्येत ह्रियेत वा ।
यावानध्वा गतस्तेन प्राप्नुयात्तावतीं भृतिम् । । ६६१ । ।
हस्त्यश्वगोखरोष्ट्रादीन्गृहीत्वा भाटकेन यः ।
नार्पयेत्कृतकृत्यार्थः स तु दाप्यः सभाटकम् । । ६६२ । ।
गृहवार्यापणादीणि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकम् । । ६६३ । ।
स्वामिपालविवादःक्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु ।
ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः । । ६६४ । ।
अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद्यत्र दण्डं तत्र प्रकल्पयेत् । । ६६५ । ।
अजातेष्वेव सस्येषु कुर्यादावरणं महत् ।
दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः । । ६६६ । ।
दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा ।
तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः । । ६६७ । ।
समयस्यानपाकर्म संविद्व्यतिक्रमो वासमूहिनां तु यो धर्मस्तेन धर्मेण
ते सदा ।
प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः । । ६६८ । ।
अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया । । ६६९ । ।
राजप्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।
गर्ह्यः स पापो दण्ड्यश्च लोपयन्राजशासनम् । । ६७० । ।
युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः ।
अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् । । ६७१ । ।
साहसी भेदकारी च गणद्रव्यविनाशकः ।
उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः । । ६७२ । ।
एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् ।
अकुर्वंस्तत्तथा दण्ड्यस्तस्य दोषं अदर्शयन् । । ६७३ । ।
गणं उद्दिश्य यत्किंचित्कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् । । ६७४ । ।
गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते । । ६७५ । ।
तथैव भोज्यवैभाज्य दानधर्मक्रियासु च ।
समूहस्थोऽंशभागी स्यात्प्रगतस्त्वंशभाङ्न तु । । ६७६ । ।
यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राजप्रसादलब्धं च सर्वेषां एव तत्समम् । । ६७७ । ।