कात्यायन स्मृतिः
अभ्युपेत्याशुश्रूषायस्तु न ग्राहयेच्शिल्पं कर्माण्यन्यानि कारयेत्।
प्राप्नुयात्साहसं पूर्वं तस्माच्शिष्यो निवर्तते । । ७१३ । ।
शिक्षितोऽपि श्रितं कामं अन्तेवासी समाचरेत् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् । । ७१४ । ।
स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवद्भृगुः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् । । ७१५ । ।
वर्णानां अनुलाम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् । । ७१६ । ।
समवर्णोऽपि विप्रं तु दासत्वं नैव कारयेत् ।
ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते । । ७१७ । ।
क्षत्रविश्शूद्रधर्मस्तु समवर्णे कदाचन ।
कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः । । ७१८ । ।
शीलाध्ययनसंपन्ने तदूनं कर्म कामतः ।
तत्रापि नाशुभं किंचित्प्रकुर्वीत द्विजोत्तमः । । ७१९ । ।
विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् ।
प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् । । ७२० । ।
प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः ।
निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविड्नृपः । । ७२१ । ।
शूद्रं तु कारयेद्दासं क्रीतं अक्रीतं एव वा ।
दास्यायैव हि सृष्टः स स्वयं एव स्वयं भुवा । । ७२२ । ।
स्वदासीं यस्तु संगच्छेत्प्रसूता च भवेत्ततः ।
अवेक्ष्य बीजं कार्या स्यान्न दासी सान्वया तु सा । । ७२३ । ।
दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः ।
प्रकाशं विक्रयाद्यत्तु न स्वामी धनं अर्हति । । ७२४ । ।
दासेनोढा स्वदासी या सापि दासीत्वं आप्नुयात् ।
यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः । । ७२५ । ।
आदद्याद्ब्राह्मणीं यस्तु चिक्रीणीत तथैव च ।
राज्ञा तदकृतं कार्यं दण्ड्या स्युः सर्व एव ते । । ७२६ । ।
कामात्तु संश्रितां यस्तु दासीं कुर्यात्कुलस्त्रियम् ।
संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् । । ७२७ । ।
बालधात्रीं अदासीं च दासीं इव भुनक्ति यः ।
परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसम् । । ७२८ । ।
विक्रोशमानां यो भक्तां दासीं विक्रेतुं इच्छति ।
अनापदिस्थः शक्तः सन्प्राप्नुयाद्द्विशतं दमम् । । ७२९ । ।
तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् । । ७३० । ।
प्रव्रज्यावसितो दासो मोक्तव्यश्च न केनचित् ।
अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । । ७३१ । ।
सीमाविवादःआधिक्यं न्यूनता चांशे अस्तिनास्तित्वं एव च ।
अभोगभुक्तिः सीमा च षट्भूवादस्य हेतवः । । ७३२ । ।
तस्मिन्भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति ।
लेख्यारूढश्चेतरश्च साक्षी मार्गद्वयान्वितः । । ७३३ । ।
क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।
द्वयोर्विवादे सामन्तः प्रत्ययः सर्ववस्तुषु । । ७३४ । ।
सामन्तभावेऽसामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् ।
ग्रामसीमासु च तथा तद्वन्नगरदेशयोः । । ७३५ । ।
ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्ट समन्तात्परिरभ्य हि । । ७३६ । ।
तेषां अभावे सामन्त मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारेऽपि नात्र कार्या विचारणा । । ७३७ । ।
संसक्तास्त्वथ सामन्तास्तत्संसक्तास्तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः । । ७३८ । ।
स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् ।
तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः । । ७३९ । ।
संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता । । ७४० । ।
नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।
कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम् । । ७४१ । ।
त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह ।
संमिश्रय कारयेत्सीमां एवं धर्मविदो विदुः । । ७४२ । ।
ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः ।
तन्मूलत्वात्तु ते मौला ऋषिभिः संप्रकीर्तिताः । । ७४३ । ।
निष्पाद्यमानं यैर्दृष्टं तत्कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास्ते वृद्धाः परिकीर्तिताः । । ७४४ । ।
उपश्रवणसंभोग कार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्मादुद्धृतास्ते ततः स्मृतः । । ७४५ । ।
सामन्ताः साधनं पूर्वं अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास्तूत्तरा ज्ञेया ततोऽन्ये त्रिगुणा मताः । । ७४६ । ।
एको यद्वन्नयेत्सीमां उभयोरीप्सितः क्वचित् ।
मस्तके क्षितिं आरोप्य रक्तवासाः समाहिताः । । ७४७ । ।
भयवर्जितभूपेन सर्वाभावे स्वयंकृता । । ७४८ । ।