कात्यायन स्मृतिः

व्यवहारलक्षणादि

प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस्तु यो वादो व्यवहारः स उच्यते । । ०२५ । ।

वि नानार्थेऽव संदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद्व्यवहार इति स्मृतः । । ०२६ । ।

न राजा तु विशित्वेन धनलोभेन वा पुनः ।
स्वयं कार्याणि कुर्वीत नराणां अविवादिनाम् । । ०२७ । ।

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचं आनय दौःशील्यादाकृष्योऽसौ नृपाज्ञया । । ०२८ । ।

द्विपदे साध्यभेदात्तु पदाष्टादशतां गते ।
अष्टादश क्रियाभेदाद्भिन्नान्यष्टसहस्रशः । । ०२९ । ।

साध्यवादस्य मूलं स्याद्वादिना यन्निवेदितम् ।
देयाप्रदानं हिंसा चेत्युत्थानद्वयं उच्यते । । ०३० । ।

पूर्वपक्षश्चोत्तरं च प्रत्याकलितं एव च ।
क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः । । ०३१ । ।

धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयं उदाहृतम् ।
जयश्चैवावसायश्च द्वे फले समुदाहृते । । ०३२ । ।

शास्त्रेण निन्दितं त्वर्थ मुख्यो राज्ञा प्रचोदितः ।
आवेदयति यः पूर्वं स्तोभकः स उदाहृतः । । ०३३ । ।

नृपेणैव नियुक्तो यः पददोषं अवेक्षितुम् ।
नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृतः । । ०३४ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!