कात्यायन स्मृतिः
क्षेत्रकूपतडागानां केदारारामयोरपि ।
गृहप्रासादावसथ नृपदेवगृहेषु च । । ७४९ । ।
बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् । । ७५० । ।
सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकं इष्यते । । ७५१ । ।
मेखलाभ्रमनिष्कास गवाक्षान्नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् । । ७५२ । ।
निवेशसमयादूर्ध्वं नैते योज्याः कदाचन ।
दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्ममु । । ७५३ । ।
विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयं उत्सृज्य परकुड्यान्निवेशयेत् । । ७५४ । ।
सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिरुद्धो यथाकालं राजमार्गः स उच्यते । । ७५५ । ।
न तत्र रोपयेत्किंचिन्नोपहन्यात्तु केनचित् ।
गुरुआचार्यनृपादीनां मार्गादानात्तु दण्डभाक् । । ७५६ । ।
यस्तत्र संकरश्वभ्रान्वृक्षारोपणं एव च ।
कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः । । ७५७ । ।
तटाकोद्यानतीर्थानि योऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् । । ७५८ । ।
दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् । । ७५९ । ।
सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् । । ७६० । ।
अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः ।
स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संश्रिताः । । ७६१ । ।
अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतटाकानां संस्कर्ता लभते न तु । । ७६२ । ।
व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम् । । ७६३ । ।
अशक्तितो न दद्याच्चेत्खिलार्थो यत्कृतो व्ययः ।
तदष्टभागहीनं तु कर्षकः फलं आप्नुयात् ।
वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् । । ७६४ । ।
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् । । ७६५ । ।
विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनराव्रजेत् ।
शीलोपचारं तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात् । । ७६६ । ।
तदष्टभागापचयाद्यावत्सप्त गताः समाः ।
समाप्तेऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः । । ७६७ । ।
वाक्पारुष्यम्हुङ्कारः कासनं चैव लोके यच्च विगर्हितम् ।
अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते । । ७६८ । ।
निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।
आक्षेपो निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंज्ञितम् ।
पतनीयैरुपाक्रोशैस्तीव्रं आहुर्मनीषिणः । । ७६९ । ।
यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् ।
अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक्स्मृता बुधैः । । ७७० । ।
न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा ।
वृत्तदेशकुलादीनां अश्लीला सा बुधैः स्मृता । । ७७१ । ।
महापातकयोक्त्री च रागद्वेषकरी च या ।
जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् । । ७७२ । ।
योऽगुणान्कीर्तयेत्क्रोधान्निगुणो वा गुणज्ञताम् ।
अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः । । ७७३ । ।
अदुष्टस्यैव यो दोषान्कीर्तयेद्दोषकारणात् ।
अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः । । ७७४ । ।
मोहात्प्रमादात्सङ्घर्षात्प्रीत्या चोक्तं मयेति यत् ।
नाहं एवं पुनर्वक्ष्ये दण्डार्धं तस्य कल्पयेत् । । ७७५ । ।
यत्र स्यात्परिहारार्थं पतितस्तेन कीर्तनम् ।
वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् । । ७७६ । ।
अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः ।
महता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् । । ७७७ । ।
अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ।
अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् । । ७७८ । ।
दण्डपारुष्यम्हेतुआदिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् ।
तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् । । ७७९ । ।
आभीषणेन दण्डेन प्रहरेद्यस्तु मानवः ।
पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः । । ७८० । ।
कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः । । ७८१ । ।
मनुष्याणां पशूनां च दुःखाय प्रहते सति ।
यथा यथा भवेद्दुःखं दण्डं कुर्यात्तथा तथा । । ७८२ । ।
अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः । । ७८३ । ।
छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः । । ७८४ । ।
उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः ।
स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु । । ७८५ । ।
वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः ।
तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् । । ७८६ । ।
देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ।
समुत्थानव्ययं चासौ दद्यादाव्रणरोपणात् । । ७८७ । ।