कात्यायन स्मृतिः

वाग्दण्डस्ताडनं चैव येषूक्तं अपराधिषु ।
हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा । । ७८८ । ।

श्रान्तांस्तृषार्तान्क्षुधितानकाले वाहयेन्नरः ।
खरगोमहिषोष्ट्रादीन्प्राप्नुयात्पूर्वसाहसम् । । ७८९ । ।

द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।
सर्पमार्जारनकुल श्वसूकरवधे नृणाम् । । ७९० । ।

गोकुमारीदेवपशु मुक्षाणं वृषभं तथा ।
वाहयन्साहसं पूर्वं प्राप्नुयादुत्तमं वधः । । ७९१ । ।

प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः । । ७९२ । ।

वनस्पतीनां सर्वेषां उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायां इति धारणा । । ७९३ । ।

शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना ।
येनात्यर्थं भवेत्पीडा वादः स्याच्शिष्यतः पितुः । । ७९४ । ।
साहसम्सहसा यत्कृतं कर्म तत्साहसं उदाहृतम् । । ७९५ । ।

सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेदेवं स्तेयं उक्तं विनिह्नवः । । ७९६ । ।

विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः । । ७९७ । ।

एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघातो तु यस्तेषां स घातक इति स्मृतः । । ७९८ । ।

व्यापादनेन तत्कारी वधं चित्रं अवाप्नुयात् ।
विनाशहेतुं आयान्तं हन्यादेवाविचारयन् । । ७९९ । ।

उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते ।
निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः । । ८०० । ।

आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः । । ८०१ । ।

उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चैव राजनि । । ८०२ । ।

भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवं आद्यान्विजानीयात्सर्वानेवाततायिनः । । ८०३ । ।

यशोवृत्तहरान्पापानाहुर्धर्मार्थहारकान् ।
अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते ।
प्राणद्रव्यापहारे च तं विद्यादाततायिनम् । । ८०४ । ।

नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् । । ८०५ । ।

गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन ।
अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि । । ८०६ । ।

क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः ।
प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः । । ८०७ । ।

हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि ।
तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् । । ८०८ । ।

प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा ।
बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् । । ८०९ । ।
स्तेयम्प्रच्छन्नं वा प्रकाशं वा निशायां अथ वा दिवा ।
यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् । । ८१० । ।

अन्यहस्तात्परिभ्रष्टं अकामादुद्धृतं भुवि ।
चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् । । ८११ । ।

तुलामानप्रतिमान प्रतिरूपकलक्षितैः ।
चरन्नलक्षितैर्वापि प्राप्नुयात्पूर्वसाहसम् । । ८१२ । ।

गृहे तु मुषितं राजा चौरग्राहांस्तु दापयेत् ।
आरक्षकांश्च दिक्पालान्यदि चौरो न लभ्यते । । ८१३ । ।

ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।
विवीते स्वामिना देयं चौरोद्धर्ता विवीतके । । ८१४ । ।

स्वदेशे यस्य यत्किंचिद्धृतं देयं नृपेण तु ।
गृह्णीयात्तत्स्वयं नष्टं प्राप्तं अन्विष्य पार्थिवः । । ८१५ । ।

चौरैर्हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्यादन्यथा किल्विषी नृपः । । ८१६ । ।

लब्धेऽपि चौरे यदि तु मोषस्तस्मान्न लभ्यते ।
दद्यात्तं अथ वा चौरं दापयेत्तु यथेष्टतः । । ८१७ । ।

तस्मिंश्चेद्दाप्यमानानां भवेद्दोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर्वा विशोधयेत् । । ८१८ । ।

यस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना ।
तच्शेषं आप्नुयात्तस्मात्प्रत्यये स्वामिना कृते । । ८१९ । ।

स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः ।
तेषां सर्वस्वं आदाय राजा शूले निवेशयेत् । । ८२० । ।

अचोराद्दापितं द्रव्यं चौरान्वेषणतत्परैः ।
उपलब्धे लभेरंस्ते द्विगुणं तत्र दापयेत् । । ८२१ । ।

येन येन परद्रोहं करोत्यङ्गेन तस्करः ।
छिन्द्यादङ्गं नृपस्तस्य न करोति यथा पुनः । । ८२२ः१ । ।

त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् ।
खर्जूरबदरादीनां मुष्टिं गृह्णन्न दुष्यति । । ८२२ः२ । ।

मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।
गौतमानां अनिष्टं यत्प्राण्युच्छेदद्विगर्हितम् । । ८२३ । ।

सहोढं असहोढं वा तत्त्वागमितसाहसम् ।
प्रगृह्याच्छिन्नं आवेद्य सर्वस्वैर्विप्रयोजयेत् । । ८२४ । ।

अयःसन्दानगुप्तास्तु मन्दभक्ता बलान्विताः ।
कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः । । ८२५ । ।

परदेशाद्धृतं द्रव्यं वैदेश्येन यदा भवेत् ।
गृहीत्वा तस्य तद्द्रव्यं अदण्डं तं विसर्जयेत् । । ८२६ । ।

चोराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।
क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् । । ८२७ । ।

अविद्वान्याजको वा स्यात्प्रवक्ता चानवस्थितः ।
तौ उभौ चोरदण्डेन विनीय स्थापयेत्पथि । । ८२८ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!