कात्यायन स्मृतिः
स्त्रीसंग्रहणम्दूतोपचारयुक्तश्चेदवेलास्थानसंस्थितिः ।
क्ण्ठकेशाण् चलग्राहः कर्णनासाकरादिषु ।
एकस्थानासनाहाराः संग्रहो नवधा स्मृतः । । ८२९ । ।
स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा ।
वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् । । ८३० । ।
कामार्ता स्वैरिणी या तु स्वयं एव प्रकामयेत् ।
राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ । । ८३१ । ।
आरम्भकृत्सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । । ८३२ । ।
युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश्च दोषवक्त्रनुमोककः । । ८३३ । ।
अनिषेद्धाक्षमो यः स्यात्सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डं एषां प्रकल्पयेत् । । ८३४ । ।
स्त्रीपुंधर्मःपत्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया ।
सौभाग्यवदव्वैधव्य काम्यया भर्तृभक्तया । । ८३५ । ।
मतिशुश्रूषयैव स्त्री सर्वान्कामान्समश्नुते ।
दिवः पुनरिहायाता सुखानां शेवधिर्भवेत् । । ८३६ । ।
मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
सारुन्धतीसमाचारा ब्रह्मलोके महीयते । । ८३७ । ।
दायविभागःसकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः ।
पितरो भ्रातरश्चैव विभागो धर्म्य उच्यते । । ८३८ । ।
पैतामहं समानं स्यात्पितुः पुत्रस्य चोभयोः ।
स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यं अर्हति । । ८३९ । ।
पैतामहं च पित्र्यं च यच्चान्यत्स्वयं अर्जितम् ।
दायादानां विभागे तु सर्वं एतद्विभज्यते । । ८४० । ।
दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितः । । ८४१ । ।
गृहोपस्करवाह्याश्च दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भृगुः । । ८४२ । ।
जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् ।
निर्भाजयेन्न चैवैकं अकस्मात्कारणं विना । । ८४३ । ।
संप्राप्तव्यवहाराणां विभागश्च विधीयते ।
पुंसां च षोडशे वर्षे जायते व्यवहारिता । । ८४४ । ।
अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् ।
न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च । । ८४५ः१ । ।
प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् ।
बालपुत्रे मृते रिक्थं रक्ष्यं तत्तन्तुबन्धुभिः ।
पौगण्डाः परतस्तं तु विभजेरन्यथांशतः । । ८४५ः२ । ।
भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थं ऋणं कृतम् ।
विभागकाले देयं तद् रिक्थिभिः सर्वं एव तु । । ८४६ । ।
तदृणं धनिने देयं नान्यथैव प्रदापयेत् ।
भावितं चेत्प्रमाणेन विरोधात्परतो यदा । । ८४७ । ।
धर्मार्थं प्रीतिदत्तं च यदृणं स्यान्नियोजितम् ।
तद्दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् । । ८४८ । ।
पित्र्यं पित्र्यर्णसंशुद्धं आत्मीयं चात्मना कृतम् ।
ऋणं एवंविधं शोध्यं विभागे बन्धुभिः सह । । ८४९ । ।
ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् । । ८५० । ।
द्व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता ।
मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी । । ८५१ । ।
यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।
तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् । । ८५२ । ।
लोके रिक्थविभागेऽपि न कश्चित्प्रभुतां इयात् ।
भोग एव तु कर्तव्यो न दानं न च विक्रयः । । ८५३ । ।
विभक्ता अविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्यनीशः सर्वत्र दानाधमनविक्रये । । ८५४ । ।
अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् । । ८५५ । ।
लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात् ।
स एवांशस्तु सर्वेषा भ्रातॄणां न्यायतो भवेत् ।
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् । । ८५६ । ।
उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः । । ८५७ । ।
कन्यकानां त्वदत्तानां चतुर्तो भाग इष्यते ।
पुत्राणां तु त्रयो भागाः साम्यं त्वल्पधने स्मृतम् । । ८५८ । ।
क्षेत्रिकस्य मतेनापि फलं उत्पादयेत्तु यः ।
तस्येह भागिनौ तौ तु न फलं हि विनैकतः । । ८५९ । ।
क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तं उत्पादकस्य सः । । ८६० । ।
न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते । । ८६१ । ।
अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते ।
प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति । । ८६२ । ।
अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः ।
असवर्णप्रसूतश्च क्रमोढायां च यो भवेत् । । ८६३ । ।
प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनं अत्यन्तं देयं तद्बन्धुभिर्मतम् । । ८६४ । ।
बन्धूनां अप्यभावे तु पितृद्रव्यं तदाप्नुयात् ।
अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः । । ८६५ । ।