कात्यायन स्मृतिः

अविभाज्यानिस्वशक्त्यपहृतं नष्टं स्वयं आप्तं च यद्भवेत् ।
एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते । । ८६६ । ।

परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।
तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते । । ८६७ । ।

उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद्विद्याद्विभागे न विभज्यते । । ८६८ । ।

शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ।
विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते । । ८६९ । ।

शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् । । ८७० । ।

परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् ।
विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः । । ८७१ । ।

विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् ।
ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः । । ८७२ । ।

विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा ।
एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा । । ८७३ । ।

कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।
शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः । । ८७४ । ।

नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद्धनम् । । ८७५ । ।

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।
तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् । । ८७६ । ।

शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् ।
एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः । । ८७७ । ।

ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् ।
संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतं उच्यते । । ८७८ । ।

यल्लब्धं दानकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् । । ८७९ । ।

वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् ।
धनं एवंविधं सर्वं विज्ञेयं धर्मसाधकम् । । ८८० । ।

विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते ।
कन्यायास्तद्धनं सर्वं अविभाज्यं च बन्धुभिः । । ८८१ । ।

धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।
उदकं चैव दासश्च निबन्धो यः क्रमागतः । । ८८२ । ।

धृतं वस्त्रं अलंकारो नानुरूपं तु यद्भवेत् ।
यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः । । ८८३ । ।

गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः । । ८८४ः१ । ।

देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।
उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् । । ८८४ः२ । ।
प्रच्छादितरिक्थस्य पुनर्विभागःप्रच्छादितं यदि धनं पुनरासाद्य
तत्समम् ।
भजेरन्भ्रातृभिः सार्धं अभावे हि पितुः सुताः । । ८८५ । ।

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् ।
पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः । । ८८६ । ।

विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् ।
हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् । । ८८७ । ।

बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् ।
बन्धूनां अविभक्तानां भोगं नैव प्रदापयेत् । । ८८८ । ।

क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः ।
तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः । । ८८९ । ।

तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् ।
जन्मनां अपरिज्ञाने लभेतांशं क्रमागतम् । । ८९० । ।

यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोतजैर्मही । । ८९१ । ।

विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) ।
विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः । । ८९२ । ।
विभक्तचिह्नादिवसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् । । ८९३ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!