कात्यायन स्मृतिः

स्त्रीधनलक्षणं स्त्रीधनप्रकाराश्च

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् । । ८९४ । ।

विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ ।
तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् । । ८९५ । ।

यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् ।
अध्यावहनिकं चैव स्त्रीधनं तदुदाहृतम् । । ८९६ । ।

प्रीत्या दत्तं तु यत्किंचित्श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । । ८९७ । ।

गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत्किंचिच्शुल्कं तत्परिकीर्तितम् । । ८९८ । ।

विवाहात्परतो यत्तु लब्धं भर्तृकुलात्स्त्रिया ।
अन्वाधेयं तदुक्तं तु लभ्दं बन्धुकुलात्तथा । । ८९९ । ।

ऊर्ध्वं लब्धं तु यत्किंचित्संस्कारात्प्रीतितः स्त्रिया ।
भर्तुः पित्रोः सकाशाद्वा अन्वाधेयं तु तद्भृगुः । । ९०० । ।

ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा ।
भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् । । ९०१ । ।
स्त्रीधने स्वाम्यादिविचारः

पितृमातृपतिभ्रातृ ज्ञातिभिः स्त्रीधनं स्त्रियै ।
यथाशक्त्या द्विसाहस्राद्दातव्यं स्थावरादृते । । ९०२ । ।

यत्तु सोपाधिकं दत्तं यच्च योगवशेन वा ।
पित्रा भ्रात्राथ वा पत्या न तत्स्त्रीधनं इष्यते । । ९०३ । ।

प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् । । ९०४ । ।

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यं इष्यते ।
यस्मात्तदानृशस्यार्थं तैर्दत्तं उपजीवनम् । । ९०५ । ।

सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि । । ९०६ । ।

भर्तृदायं मृते पत्यौ विन्यसेत्स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत्क्षपयेत्तत्कुलेऽन्यथा । । ९०७ । ।

अथ चेत्स द्विभार्यः स्यान्न च तां भजते पुनः ।
प्रीत्या निसृष्टं अपि चेत्प्रतिदाप्यः स तद्बलात् । । ९०८ । ।

ग्रासाच्छादनवासानां आच्छेदो यत्र योषितः ।
तत्र स्वं आददीत स्त्री विभागं रिक्थिनां तथा । । ९०९ । ।

लिखितस्येति धर्मोऽयं प्राप्ते भर्तृकुले वसेत् ।
व्याधिता प्रेतकाले तु गच्छेद्बन्धुजनं ततः । । ९१० । ।

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः । । ९११ । ।

यदि ह्येकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् ।
सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् । । ९१२ । ।

तदेव यद्यनुज्ञाप्य भक्षयेत्प्रीतिपूर्वकम् ।
मूल्यं एव प्रदाप्यः स्याद्यद्यसौ धनवान्भवेत् । । ९१३ । ।

व्याधितं व्यसनस्थं च धनिकैर्वोपपीडितम् ।
ज्ञात्वा निसृष्टं यत्प्रीत्या दद्यादात्मेच्छया तु सः । । ९१४ । ।

जीवन्त्याः पतिपुत्रास्तु देवराः पितृबान्धवाः ।
अनीशाः स्त्रीधनस्योक्ता दण्ड्यास्त्वपहरन्ति ये । । ९१५ । ।

भर्त्रा प्रतिश्रुतं देयं ऋणवत्स्त्रीधनं सुतैः ।
तिष्ठेद्भर्तृकुले या तु न सा पितृकुले वसेत् । । ९१६ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!