कात्यायन स्मृतिः

मृतायाः स्त्रिया धनाधिकारिणः

भगिन्यो बान्धवैः सार्धं विभजेरन्सभर्तृकाः ।
स्त्रीधनस्येति धर्मोऽयं विभागस्तु प्रकल्पितः । । ९१७ । ।

दुहितॄणां अभावे तु रिक्थं पुत्रेषु तद्भवेत् ।
बन्धुदत्तं तु बन्धूनां अभावे भ्र्तृगामि तत् । । ९१८ । ।

पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं धनम् ।
अप्रजायां अतातायां भ्रातृगामि तु सर्वदा । । ९१९ । ।

आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया ।
अभावे तदपत्यानां मातापित्रोस्तदिष्यते । । ९२० । ।
अपुत्रधने पत्न्यादयो धनाधिकारिणः

अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीतामरणात्क्षान्ता दायादा ऊर्ध्वं आप्नुयुः । । ९२१ । ।

स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी ।
अविभक्ते धनांशे तु प्राप्नोत्यामरणान्तिकम् । । ९२२ । ।

भोक्तुं अर्हति क्लृप्तांशं गुरुशुश्रूषणे रता ।
न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोज्येत् । । ९२३ । ।

मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।
यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये । । ९२४ । ।

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
दमदानरता नित्यं अपुत्रापि दिवं व्रजेत् । । ९२५ । ।

पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी ।
तदभावे तु दुहिता यद्यनूढा भवेत्तदा । । ९२६ । ।

अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः । । ९२७ । ।

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ।
अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका । । ९२८ । ।

व्यभिचाररता या च स्त्री धनं सा न चार्हति । । ९२९ । ।

नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदेहिकम् । । ९३० । ।

अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् । । ९३१ । ।

संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः ।
अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः । । ९३२ । ।
द्यूतसमाह्वयौद्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् ।
असाधुजननं क्रूरं नराणां द्रव्यनाशनम् । । ९३३ । ।

ध्रुवं द्यूतात्कलिर्यस्माद्विषं सर्पमुखादिव ।
तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् । । ९३४ । ।

वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् ।
असंमोहार्थं आर्याणां कारयेत्तत्करपदम् । । ९३५ । ।

सभिकः कारयेद्द्यूतं देयं दद्यात्स्वयं नृपे ।
दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् । । ९३६ । ।

जेतुर्दद्यात्स्वकं द्रव्यं जिताद्ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितावात्तु न संशयः । । ९३७ । ।

एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः ।
दृश्यते च जयस्तस्य यस्मिन्रक्षा व्यवस्थिता । । ९३८ । ।

अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्यादेवं दोषो न विद्यते । । ९३९ । ।

प्रसह्य दापयेद्देयं तस्मिन्स्थाने न चान्यथा ।
जितं वै सभिकस्तत्र सभिकप्रत्यया क्रिया । । ९४० । ।

अनभिज्ञो जितो मोच्योऽमोच्योऽभिज्ञो जितो रहः ।
सर्वस्वे विजितेऽभिज्ञे न सर्वस्वं प्रदापयेत् । । ९४१ । ।

विग्रहेऽथ जये लाभे करणे कूटदेविनाम् ।
प्रमाणं सभिकस्तत्र शुचिश्च सभिको यदि । । ९४२ । ।

म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् ।
तत्कृताचारं एतॄणां निश्चयो न तु राजनि । । ९४३ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!