कात्यायन स्मृतिः
धर्माधिकरणम्
धर्मशास्त्रविचारेण मूलसारविवेचनम् ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् । । ०५२ । ।
प्रातरुत्थाय नृपतिः शौचं कृत्वा समाहितः ।
गुरुं ज्योतिर्विदं वैद्यान्देवान्विप्रान्पुरोहितान् । । ०५३ । ।
यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिवन्द्य च गुर्वादीन्सुमुखां प्रविशेत्सभाम् । । ०५४ । ।
विनीतवेषो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखः स्थित्वा पश्येत्कार्याणि कार्यिणाम् ।
सह त्रैविद्यवृद्धैश्च मन्त्रज्ञैश्चैव मन्त्रिभिः । । ०५५ । ।
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः । । ०५६ । ।
सह सभ्यैः स्थिरैर्युक्तैः प्राज्ञैर्मौलैर्द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः । । ०५७ । ।
कुलशीलवयोवृत्त वित्तवद्भिरमत्सरैः ।
वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् । । ०५८ । ।
श्रोतारो वणिजस्तत्र कर्तव्या न्यायदर्शिनः । । ०५९ । ।