कात्यायन स्मृतिः
कार्यदर्शनकालः
सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः ।
कुर्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः । । ०६० । ।
दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः । । ०६१ । ।
आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः । । ०६२ । ।
प्राड्विवाकःयदा कुर्यान्न नृपतिः स्वयं कार्यविनिर्णयम् ।
तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् । । ०६३ । ।
दक्षं कुलीनमध्यस्थं अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठं उद्युक्तं क्रोधवर्जितम् । । ०६४ । ।
अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः ।
उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु । । ०६५ । ।
एकशास्त्रं अधीयानो न विद्यात्कार्यनिश्चयम् ।
तस्माद्बह्वागमः कार्यो विवादेषूत्तमो नृपैः । । ०६६ । ।
ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् । । ०६७ । ।
अतोऽन्यैर्यत्कृतं कार्यं अन्यायेन कृतं तु तत् ।
नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः । । ०६८ । ।
व्यवहाराश्रितं प्रश्नं पृच्छति प्राङिति स्थितिः ।
विवेचयति यस्तस्मिन्प्राड्विवाकस्ततः स्मृतः । । ०६९ । ।
अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना ।
प्राड्विवाकोऽथ दण्ड्यः स्यात्सभ्याश्चैव विशेषतः । । ०७० । ।
सभ्याःअलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः ।
सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या द्विजोत्तमाः । । ०७१ । ।
न्यायशास्त्रं अतिक्रम्य सभ्यैर्यत्र विनिश्चितम् ।
तत्र धर्मो ह्यधर्मेण हतो हन्ति न संशयः । । ०७२ । ।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः । । ०७३ । ।
अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः ।
उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः । । ०७४ । ।
अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः ।
तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्नृपः । । ०७५ । ।
न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् । । ०७६ । ।
सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः । । ०७७ । ।
अधर्माय यदा राजा नियुञ्जीत विवादिनाम् ।
विज्ञाप्य नृपतिं सभ्यस्तदा कार्यं निवर्तयेत् । । ०७८ । ।
स्नेहादज्ञानतो वापि लोभाद्वा मोहतोऽपि वा ।
तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः । । ०७९ । ।
कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् । । ०८० । ।
सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा ।
कार्यं तु कार्यिणां एव निश्चितं न विचालयेत् । । ०८१ । ।