कात्यायन स्मृतिः
कार्यनिर्णेतॄणां गुरुलाघवम्कु
म्कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् । । ०८२ । ।
तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् । । ०८३ । ।
सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् ।
उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् । । ०८४ । ।
गोत्रस्थितिस्तु या तेषां क्रमादायाति धर्मतः ।
कुलधर्मं तु तं प्राहुः पालयेत्तं तथैव तु । । ०८५ । ।
प्रश्नप्रकारः
काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव । । ०८६ । ।
केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतः ।
एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्राह्मणः सहः । । ०८७ । ।
विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् ।
मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् । । ०८८ । ।
प्रतिनिधिःसमर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् । । ०८९ । ।
अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः ।
इतरोऽप्यभियुक्तेन प्रतिरोधिकृतो मतः । । ०९० । ।
अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ । । ०९१ । ।
दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा ।
वादिनो न च दण्ड्याः स्युः यस्त्वतोऽन्यः स दण्डभाक् । । ०९२ । ।
ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येषु चातिपापेषु प्रतिवादी न दीयते । । ०९३ । ।
मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे । । ०९४ । ।
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्ता तु विवदेत्स्वयम् । । ०९५ । ।
आह्वानंधर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि ।
अस्वस्थमत्तोन्मत्तार्त स्त्रियो नाह्वानयेन्नृपः । । ०९६ । ।
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः । । ०९७ । ।
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः ।
निष्कुला याश्च पतितास्तासां आह्वानं इष्यते । । ०९८ । ।
सशस्त्रोऽनुत्तरीयो वा मुक्तकेशः सहासनः ।
वामहस्तेन वा वादं वदन्दण्डं अवाप्नुयात् । । ०९९ । ।
आहूतस्त्ववमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा । । १०० । ।