कात्यायन स्मृतिः

हीने कर्माणि पञ्चाशन् मध्यमे द्विशतावरः ।
गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः । । १०१ । ।

कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि । । १०२ । ।
आसेधःउत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचं आनाय दौःशील्यादाकृष्योऽसौ नृपाज्ञया । । १०३ । ।

आवेद्य तु नृपे कार्यं असंदिग्धे प्रतिश्रुते ।
तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनम् । । १०४ । ।

आसेधयोग्य आसिद्ध उत्क्रामन्दण्डं अर्हति । । १०५ । ।
अनासेध्याःयस्त्विन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।
आसेधयेदनासेध्यं स दण्ड्यो न त्वतिक्रमी । । १०६ । ।

वृक्षपर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः । । १०७ । ।

व्याध्यार्ता व्यसनस्थाश्च यजमानास्तथैव च ।
अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा । । १०८ । ।

न कर्षको बीजकाले सेनाकाले तु सैनिकः ।
प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा । । १०९ । ।

उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् ।
आसेधयंस्त्वनासेध्यं रज्ञा शास्य इति स्थितिः । । ११० । ।

अभियुक्तश्च रुद्धश्च तिष्ठेयुश्च नृपाज्ञया ।
न तस्यान्येन कर्तव्यं अभियुक्तं विदुर्बुधाः । । १११ । ।

एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया ।
दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् । । ११२ । ।

देशकालवयःशक्त्याद्य् अपेक्षं भोजनं स्मृतम् ।
आकारकस्य सर्वत्र इति तत्त्वविदो विदुः । । ११३ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!