कात्यायन स्मृतिः

प्रतिभूत्वेनाग्राह्याः

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा ।
निरुद्धो दण्डितश्चैव संशयस्थाश्च न क्वचित् । । ११४ । ।

नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः । । ११५ । ।

नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्तकः ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति । । ११६ । ।

अथ चेत्प्रतिभूर्नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् । । ११७ । ।

द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्बाह्यचारिभिः ।
शूद्रादीन्प्रतिभूहीनान्बन्धयेन्निगडेन तु । । ११८ । ।

अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् ।
नित्यकर्मापरोधस्तु कार्यः सर्ववर्णिनाम् । । ११९ । ।

ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता ।
तस्य वा तत्समर्प्यं स्यात्स्थापयेद्वा परस्य तत् । । १२० । ।
अभियोक्त्रादीनां उक्तिक्रमःतत्राभियोक्ता
प्राग्ब्रूयादभियुक्तस्त्वनन्तरम् ।
तयोरन्ते सदस्यास्तु प्राड्विवाकस्ततः परम् । । १२१ । ।

यस्य स्यादधिका पीडा कार्यं वाप्यधिकं भवेत् ।
पूर्वपक्षो भवेत्तस्य न यः पूर्वं निवेदयेत् । । १२२ । ।

यस्य वार्थगता पीडा शारीरी वाधिका भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् । । १२३ । ।
प्रतिज्ञास्वरूपम्निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः । । १२४ । ।

साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च । । १२५ । ।

क्रमात्पितॄणां नामानि पीडां चाहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् । । १२६ । ।

देशश्चैव तथा स्थानं संनिवेशस्तथैव च ।
जातिः संज्ञा निवासश्च प्रमाणं क्षेत्रनाम च । । १२७ । ।

पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् । । १२८ । ।

रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदों इति लिखेत्सर्वं वादिनः फलकादिषु । । १२९ । ।

अधिकान्शोधयेदर्थान्न्यूनांश्च प्रतिपूरयेत् ।
भूमौ निवेशयेत्तावद्यावत्पक्षः प्रतिष्ठितः । । १३० । ।

पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् । । १३१ । ।

अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः ।
चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः । । १३२ । ।

सोल्लेखनं वा लभते त्र्यहं सप्ताहं एव वा ।
मतिरुत्पद्यते यावद्विवादे वक्तुं इच्छतः । । १३३ । ।

यस्मात्कार्यसमारम्भाच्चिरात्तेन विनिश्चयः ।
तस्मात्न लभते कालं अभियुक्तस्तु कालभाक् । । १३४ । ।

मतिर्नोत्सहते यत्र विवादे कार्यं इच्छतोः ।
दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि । । १३५ । ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!