केतु स्तोत्र
केतु स्तोत्र
केतु: काल: कलयिता धूम्रकेतुर्विवर्णक: ।
लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।1।।
रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्ध्रक् ।
फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।2।।
तारागणविमर्दो च जैमिनेयो ग्रहाधिप: ।
पंचविंशति नामानि केतुर्य: सततं पठेत् ।।3।।
तस्य नश्यंति बाधाश्चसर्वा: केतुप्रसादत: ।
धनधान्यपशूनां च भवेद् व्रद्विर्नसंशय: ।।4।।