अथ नारायणत्रींशोपचार पूजा

।। अथ नारायणत्रींशोपचार पूजा ।।

ध्यानम्  ० –  सुरकदंबकै:  प्रश्रयेण वै नियतसेवितं गोकुलोत्सवम् ।। किरीट कुंडलं पीतजाम्बरं खलनिषूदनं कृष्णमाह्वयै …

आवा० –  खगपवाहनं क्षीरजाप्रियं भवभयापहं भुक्तिमुक्तिदम् ।। सुरपतिं जगन्नाथमीश्वरं कमलभासमा वाहयाम्यहम् …

आसनं० –  विधिमुखामरैर्नम्रमूर्तिभि: प्रणतसंश्रितं दुर्धरादिमत् ।। वरमणिप्रभाभासुरं नवं जनप गृह्यतां स्वर्णमासनम् …

पाद्यं० –  कुसुमवासितं गंधविस्तृतं मुनिनिषेवितं सादरेण वै ।।
ध्रुवपराशराभीष्टद प्रभो जनप गृह्यतां पाद्यमुत्तमम् …

अर्घ्य० –  कनकसंपुटे स्थापितं वरं जलसुवर्णमुक्ता फलैर्युतम्।।
करसरोरुहाभ्यां धृतं मया जनप गृह्यतामर्घ्यमुत्तमम् …

आचमनीयं० –  तव रमायुज: सेवनाज्जना न्नृपतिसन्निभा: संभवन्ति हि।।
सुरतरंगिणीशुद्धवारिभिर्जनप गृह्यतामाचमं शुभम् …

पय: ० –  सूरगवुद्भवं वीर्यवर्धकं निखिलदे
हिनां जीवनप्रदम् ।।
शशधरप्रभं फेनसंयुतं जनप गृह्यतामर्पितं पय: …

दधि० –  शुचिपय: समुद्भूतमुत्प्रदं व्रजनिवासिभि: स्वादितं शुभम् ।।
रजतसन्निभं शीततामयं जनप गृह्यतामर्पितं दधि …

घृत० –  हुतवहप्रियं क्षीरजोभ्दवं सकलदेहिनां सत्त्ववर्धकम् ।।
कुमुदसदृशं विष्णुदैवतं जनप गृह्यतामर्पित घृतम् …

मधु० –  मधुलतोद्भवं स्वादु मंजुलं मधुपमक्षिका द्द्यैर्विनिर्मितम्।।
मधुरतामयं गंधसंप्रदं मधुह तेS र्पितं गृह्यतां मधु …

शर्क० –  मदनकार्मुकात् याविनिर्मिता मधुरतान्विता सर्वपापहा ।।
सरसतां गता तारकोपमा जनप गृह्यतां शुद्धशर्करा …

अभ्यंग० –  कदंबकेतकी पुष्पसंभवं मृगमदान्वितं यंत्रनिर्मितम्।।
अनुपकारिणा भक्तितो मया जनप गृह्यतां तैलमर्पितम् …

स्नानाम् ० –  हरिपदांबुजानर्मदामहीसरयुचंद्रभागाभ्य आहृतम् ।।
जलजवासितं स्नानहेतवे जनप गृह्यतामर्पितं जलम् …

वस्त्रम् ० –  विविधतंतुभि र्गुंफितं नवं सुतपनीयभं सोत्तरीयकम् ।।
मधुरिपो जगन्नाथ माधव जनप गृह्यतां वस्त्रमर्पितम् …

यज्ञो० –  त्रिगुणितं सितैरर्कतंतुभि: कृतमिदं मया शुद्धचेतसा ।।
निगमसंमतं बंधमोचकं जनप गृह्यतामुपवीतकम् …

गंध ० –  मलयसंभवं पीतवर्णकं मृगमदादिभिर्वासितं वरम् ।।
मूदितषट्पदं कुंकुमान्वितं जनप गृह्यतां गंधमर्पितम् …

अक्ष० – कलमसंभवा मौक्तिकोपमा: त्रिपथगोद कैर्क्षालिता: शिवा: ।।
अगरुकुंकुमैर्मिश्रिता वरा जनप गृह्यतामर्पिताक्षता: …

पुष्पाणि ० –  तरुणमल्लिकाकुंद- मालतिबकुलपंकजानां समुच्चयै: ।।
सततसूत्रितं भक्तितो मया जनप गृह्यतां हारमर्पितम् …

श्वेत० –  कदंबकेतकीवृक्षसंभवं विविधसौख्यदं कांती वर्धनम् ।।
सितकरोपमं स्नेहसत्कृतं जनप गृह्यतां श्वेतचुर्णकम् …

रक्त० –  अमरजादिभिर्देववृंदकै: शिरसि वै धृतं प्रक्षयेण वै ।।
तपनसदृशं दृष्टिमुत्कलं जनप गृह्यतां रक्तचुर्णकम् ..

सिंदूर० –  गणपतिप्रियं बालसूर्यभं पवनसूनुना स्वीकृतं सदा ।।
सुरभिवासितं सूक्ष्मचूर्णकं जनप गृह्यतां नागसंभवम् ..

धूप ० –  अगरुगुग्गुलाज्यादिमिश्रितं तपनयोगजोभ्दूतसौरभम् ।।
अमरवृंदकै: स्नेहसत्कृतं जनप गृह्यतां धुपमुत्तमम् ..

दिप० – अनलतैलिनिगोघृतान्वितं तिमिरनाशकं दीप्ततंतुभि: ।।
कनकभाजने स्थापितं मया जनप गृह्यतां दीपमुत्तम् …

नवै० – पनसदाडिमाम्रादिसत्फलं सुघृतमोदकापूपपायसम् ।।
रजत भाजने स्थापितं मया जनप गृह्यतां खाद्यमुत्तमम् ..

आच० – जलधिगोद्भवं शीततामयं सकलप्राणिनां प्राणदायकम् ।।
विधिसमर्पितं शुद्धचेतसा जनप गृह्यतामाचमं शुभम् ..

ताम्बू० – खपूरसंभवं पूगचूर्णयुङ् मृगमदेलुकावासितं वरम्  ।।
फणिलतादलै:  कॢप्तविडकं जनप गृह्यतामास्य भूषणम् ..

दक्षि० – निखिलयाचीनां श्रेष्ठभोगदा निजमसंमता कर्मपूर्णदा ।।
सकलभुजनै: वांछिता सदा जनप गृह्यतां हेमदक्षिणा …

नीरा० – हुतवहप्रियैर्मिश्रितं वरं जलधिजैर्यूतं सर्वपापहम् ।।
मुखविलोकनार्थाय सत्कृतं जनप गृह्यतामार्तिकं शुभम् ..

प्रद० – वरदसञ्चितं पूर्वजन्मभिर्दहतिकिल्बिषं त्वत्प्रदक्षिणा ।। नरहरीं मुदा शुद्धचेतसा सततमीश्वरं त्वां नमाम्यहम्  …

नम० – जय जय प्रभो सात्वतांपते शरणवत्सला भीष्टसाधक ।।
यदुपते जगन्नाथ सर्वदा  शरणमागतं पाहि पाहि माम् ..

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!