श्रीविठ्ठलस्तोत्र

श्रीविठ्ठलस्तोत्रं

वन्दे श्रीरुक्मिणीकान्तं विठ्ठलं भक्तवत्सलम् ।
पुण्डलीकं सुवरदं तममुं सततं भजे ॥२॥
नागभीट् प्राणदाता च पाण्डवानामभीष्टकृत् ।
तन्नामकं सुकमलं सर:कृद्विठ्ठलं नुम: ॥३॥
देवप्रीत्यै देवसरो निर्मितं सर्वपापहृत् ।
तममुं देवदेवेशं नागेशं विठ्ठलं नुम: ॥४॥
स स्वात्मज ब्रम्हसुहृत् तमो ग्रन्थिविभेदकृत् ।
विदा ज्ञानेन ठानज्ञान् लाति गृण्हाति तं नुम: ॥५॥
नागा: सर्पा: पर्वताश्च तेषां भीर्गरुडेन्द्रत: ।
तत्स्वामी भगवान् विष्णुं विठ्ठलस्तं नमाम्यहम् ॥६॥
नागा निरपराधाश्च तद्भीहृत् ज्ञानदेश्वर: ।
तं नागभीड्वासुदेवं विठ्ठलं सततं नुम: ॥७॥
नाग: शेष: पर्वतश्च गोवर्धनगिरि: प्रियौ ।
अतस्तौ भीषदौ यस्मात् विठ्ठलं तं नमाम्याहम् ॥८॥

इति श्रीविठ्ठलस्तोत्रं संपूर्णम्

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!