पवमानसूक्तम्
॥ पवमानसूक्तम् ॥
( पुण्याहवाचनम् )
तैत्तिरीय संहिता । काण्डम् – ५, प्रपाठकः – ६, अनुवाकः – १
तैत्तिरीय ब्राह्मणम् । अष्टकम् – १, प्रश्नः – ४, अनुवाकः – ८
ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं य॒ज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे ।
ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ।
ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु॥
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु॥
यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु॥
शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽऽपश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे ।
सर्वाꣳ॑ अ॒ग्नीꣳ र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त॥
पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदः पवित्र॑वत् । प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒ रनु॑। यत्ते॑ प॒वित्र॑म॒र्चिषि॑। अग्ने॒ वित॑तमन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देवसवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे ।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तः सध॒माद्ये॑षु । व॒यꣳ स्या॑म॒ पत॑यो रयी॒णाम् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ।
बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः ।
अग्ने॒ दक्षैः᳚ पुनाहि मा । येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यंकशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा । इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒ध्येति॑।
ऋषि॑भि॒स्सम्भृ॑त॒ꣳ॒ रसम्᳚। सर्व॒ꣳ॒ स पू॒तम॑श्नाति ।
स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मानीर्यो अ॒ध्येति॑।
ऋषि॑भि॒स्सम्भृ॑त॒ꣳ॒ रसम्᳚। तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम्॥
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि पय॑स्वतीः ।
ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् ।
पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं लो॒कमथो॑ अ॒मुम् ।
कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैः स॒माभृ॑ताः ।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ ।
ऋषि॑भि॒स्संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् ।
येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚।
तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा ।
प्रा॒जा॒प॒त्यं प॒वित्रम्᳚। श॒तोध्या॑मꣳ हिर॒ण्मयम्᳚।
तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे ।
इन्द्र॑स्सुनी॒ती स॒हमा॑ पुनातु । सोम॑स्स्व॒स्त्या व॑रुणस्स॒मीच्या᳚।
यमो॒ राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु । भूर्भुव॒स्सुवः॑ ।
ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे ।
ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ।
—————————————–
ॐ गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिःसीदसादनम् ॥
प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती ।धीनामवित्र्यवतु ॥
वेत वातस्य वर्तनिमुरोवृष्वस्य बृहतः।
वेदा ये अध्यासते ॥
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् । मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तं न वेद किम् ऋचा करिष्यति य इत्तद्विदुः त इमे समासते ॥
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
इन्द्रा॑य॒ पात॑वे सु॒तः ॥ ९.००१.०१
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।
द्रुणा॑ स॒धस्थ॒मास॑दत् ॥ ९.००१.०२
व॒रि॒वो॒धात॑मो भव॒ मंहिष्ठो वृत्र॒हन्त॑मः ।
पर्षि॒ राधो॑ म॒घोना॑म् ॥ ९.००१.०३
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.००१.०४
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।
इन्दो॒ त्वे न॑ आ॒शसः॑ ॥ ९.००१.०५
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ॥ ९.००१.०६
तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ ।
स्वसा॑रः॒ पार्ये॑ दि॒वि ॥ ९.००१.०७
तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् ।
त्रि॒धातु॑ वार॒णं मधु॑ ॥ ९.००१.०८
अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु॑म् ।
सोम॒मिन्द्रा॑य॒ पात॑वे ॥ ९.००१.०९
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
शूरो॑ म॒घा च॑ मंहते ॥ ९.००१.१०
पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ ।
इन्द्र॑मिन्दो॒ वृषा वि॑श ॥ ९.००२.०१
आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे॑न्दो द्यु॒म्नव॑त्तमः ।
आ योनिं॑ धर्ण॒सिः स॑दः ॥ ९.००२.०२
अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥ ९.००२.०३
म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्षन्ति॒ सिन्ध॑वः ।
यद्गोभि॑र्वासयि॒ष्यसे॑ ॥ ९.००२.०४
स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः ।
सोमः॑ प॒वित्रे॑ अस्म॒युः ॥ ९.००२.०५
अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः ।
सं सूर्ये॑ण रोचते ॥ ९.००२.०६
गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ ।
याभि॒र्मदा॑य॒ शुम्भ॑से ॥ ९.००२.०७
तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे ।
तव॒ प्रश॑स्तयो म॒हीः ॥ ९.००२.०८
अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पवस्व॒ धार॑या ।
प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥ ९.००२.०९
गो॒षा इ॑न्दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त ।
आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥ ९.००२.१०
ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।
अ॒भि द्रोणा॑न्या॒सद॑म् ॥ ९.००३.०१
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।
पव॑मानो॒ अदा॑भ्यः ॥ ९.००३.०२
ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ ।
हरि॒र्वाजा॑य मृज्यते ॥ ९.००३.०३
ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।
पव॑मानः सिषासति ॥ ९.००३.०४
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।
आ॒विष्कृ॑णोति वग्व॒नुम् ॥ ९.००३.०५
ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥ ९.००३.०६
ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।
पव॑मानः॒ कनि॑क्रदत् ॥ ९.००३.०७
ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।
पव॑मानः स्वध्व॒रः ॥ ९.००३.०८
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः ।
हरिः॑ प॒वित्रे॑ अर्षति ॥ ९.००३.०९
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ ।
धार॑या पवते सु॒तः ॥ ९.००३.१०
सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०१
सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०२
सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०३
पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०४
त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०५
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०६
अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०७
अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०८
त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०९
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.१०
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति ।
प्री॒णन्वृषा॒ कनि॑क्रदत् ॥ ९.००५.०१
तनू॒नपा॒त्पव॑मानः॒ शृङ्गे॒ शिशा॑नो अर्षति ।
अ॒न्तरि॑क्षेण॒ रार॑जत् ॥ ९.००५.०२
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।
मधो॒र्धारा॑भि॒रोज॑सा ॥ ९.००५.०३
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ ।
दे॒वेषु॑ दे॒व ई॑यते ॥ ९.००५.०४
उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।
पव॑मानेन॒ सुष्टु॑ताः ॥ ९.००५.०५
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।
नक्तो॒षासा॒ न द॑र्श॒ते ॥ ९.००५.०६
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।
पव॑मान॒ इन्द्रो॒ वृषा॑ ॥ ९.००५.०७
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।
इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥ ९.००५.०८
त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।
इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥ ९.००५.०९
वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या ।
स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥ ९.००५.१०
विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।
वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ॥ ९.००५.११
म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।
अव्यो॒ वारे॑ष्वस्म॒युः ॥ ९.००६.०१
अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर ।
अ॒भि वा॒जिनो॒ अर्व॑तः ॥ ९.००६.०२
अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.००६.०३
अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन् ।
पु॒ना॒ना इन्द्र॑माशत ॥ ९.००६.०४
यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑ ।
वने॒ क्रीळ॑न्त॒मत्य॑विम् ॥ ९.००६.०५
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।
सु॒तं भरा॑य॒ सं सृ॑ज ॥ ९.००६.०६
दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः ।
पयो॒ यद॑स्य पी॒पय॑त् ॥ ९.००६.०७
आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।
प्र॒त्नं नि पा॑ति॒ काव्य॑म् ॥ ९.००६.०८
ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।
गुहा॑ चिद्दधिषे॒ गिरः॑ ॥ ९.००६.०९
असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।
वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥ ९.००७.०१
प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।
ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ॥ ९.००७.०२
प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।
सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥ ९.००७.०३
परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।
स्व॑र्वा॒जी सि॑षासति ॥ ९.००७.०४
पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।
यदी॑मृ॒ण्वन्ति॑ वे॒धसः॑ ॥ ९.००७.०५
अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।
रे॒भो व॑नुष्यते म॒ती ॥ ९.००७.०६
स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।
रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥ ९.००७.०७
आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ ।
वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥ ९.००७.०८
अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।
श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥ ९.००७.०९
ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् ।
वर्ध॑न्तो अस्य वी॒र्य॑म् ॥ ९.००८.०१
पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ ।
ते नो॑ धान्तु सु॒वीर्य॑म् ॥ ९.००८.०२
इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ ९.००८.०३
मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ ।
अनु॒ विप्रा॑ अमादिषुः ॥ ९.००८.०४
दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ ।
सं गोभि॑र्वासयामसि ॥ ९.००८.०५
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ ।
परि॒ गव्या॑न्यव्यत ॥ ९.००८.०६
म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ ।
इन्दो॒ सखा॑य॒मा वि॑श ॥ ९.००८.०७
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।
सहो॑ नः सोम पृ॒त्सु धाः॑ ॥ ९.००८.०८
नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद॑म् ।
भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ ९.००८.०९
परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः ।
सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥ ९.००९.०१
प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ ।
वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥ ९.००९.०२
स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् ।
म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥ ९.००९.०३
स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुहः॑ ।
या एक॒मक्षि॑ वावृ॒धुः ॥ ९.००९.०४
ता अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः ।
इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥ ९.००९.०५
अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः ।
क्रिवि॑र्दे॒वीर॑तर्पयत् ॥ ९.००९.०६
अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ ।
तानि॑ पुनान जङ्घनः ॥ ९.००९.०७
नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः ।
प्र॒त्न॒वद्रो॑चया॒ रुचः॑ ॥ ९.००९.०८
पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् ।
सना॑ मे॒धां सना॒ स्वः॑ ॥ ९.००९.०९
प्र स्वा॒नासो॒ रथा॑ इ॒वार्व॑न्तो॒ न श्र॑व॒स्यवः॑ ।
सोमा॑सो रा॒ये अ॑क्रमुः ॥ ९.०१०.०१
हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः ।
भरा॑सः का॒रिणा॑मिव ॥ ९.०१०.०२
राजा॑नो॒ न प्रश॑स्तिभिः॒ सोमा॑सो॒ गोभि॑रञ्जते ।
य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥ ९.०१०.०३
परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा ।
सु॒ता अ॑र्षन्ति॒ धार॑या ॥ ९.०१०.०४
आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म् ।
सूरा॒ अण्वं॒ वि त॑न्वते ॥ ९.०१०.०५
अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रवः॑ ।
वृष्णो॒ हर॑स आ॒यवः॑ ॥ ९.०१०.०६
स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः ।
प॒दमेक॑स्य॒ पिप्र॑तः ॥ ९.०१०.०७
नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ ।
क॒वेरप॑त्य॒मा दु॑हे ॥ ९.०१०.०८
अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तम् ।
सूरः॑ पश्यति॒ चक्ष॑सा ॥ ९.०१०.०९
उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे ।
अ॒भि दे॒वाँ इय॑क्षते ॥ ९.०११.०१
अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।
दे॒वं दे॒वाय॑ देव॒यु ॥ ९.०११.०२
स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।
शं रा॑ज॒न्नोष॑धीभ्यः ॥ ९.०११.०३
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।
सोमा॑य गा॒थम॑र्चत ॥ ९.०११.०४
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।
मधा॒वा धा॑वता॒ मधु॑ ॥ ९.०११.०५
नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन ।
इन्दु॒मिन्द्रे॑ दधातन ॥ ९.०११.०६
अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे॑ ।
दे॒वेभ्यो॑ अनुकाम॒कृत् ॥ ९.०११.०७
इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे ।
म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥ ९.०११.०८
पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः ।
इन्द॒विन्द्रे॑ण नो यु॒जा ॥ ९.०११.०९
सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने ।
इन्द्रा॑य॒ मधु॑मत्तमाः ॥ ९.०१२.०१
अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ ।
इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥ ९.०१२.०२
म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिन्धो॑रू॒र्मा वि॑प॒श्चित् ।
सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥ ९.०१२.०३
दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते ।
सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥ ९.०१२.०४
यः सोमः॑ क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः ।
तमिन्दुः॒ परि॑ षस्वजे ॥ ९.०१२.०५
प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
जिन्व॒न्कोशं॑ मधु॒श्चुत॑म् ॥ ९.०१२.०६
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ ।
हि॒न्वा॒नो मानु॑षा यु॒गा ॥ ९.०१२.०७
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति ।
विप्र॑स्य॒ धार॑या क॒विः ॥ ९.०१२.०८
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् ।
अ॒स्मे इ॑न्दो स्वा॒भुव॑म् ॥ ९.०१२.०९
सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।
वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥ ९.०१३.०१
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।
सु॒ष्वा॒णं दे॒ववी॑तये ॥ ९.०१३.०२
पव॑न्ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः ।
गृ॒णा॒ना दे॒ववी॑तये ॥ ९.०१३.०३
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ ।
द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥ ९.०१३.०४
ते नः॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् ।
सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥ ९.०१३.०५
अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।
वि वार॒मव्य॑मा॒शवः॑ ॥ ९.०१३.०६
वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ ।
द॒ध॒न्वि॒रे गभ॑स्त्योः ॥ ९.०१३.०७
जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।
विश्वा॒ अप॒ द्विषो॑ जहि ॥ ९.०१३.०८
अ॒प॒घ्नन्तो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ ।
योना॑वृ॒तस्य॑ सीदत ॥ ९.०१३.०९
परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः ।
का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥ ९.०१४.०१
गि॒रा यदी॒ सब॑न्धवः॒ पञ्च॒ व्राता॑ अप॒स्यवः॑ ।
प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥ ९.०१४.०२
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
यदी॒ गोभि॑र्वसा॒यते॑ ॥ ९.०१४.०३
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
अत्रा॒ सं जि॑घ्नते यु॒जा ॥ ९.०१४.०४
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥ ९.०१४.०५
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥ ९.०१४.०६
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म् ।
पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥ ९.०१४.०७
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
वसू॑नि याह्यस्म॒युः ॥ ९.०१४.०८
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ ।
गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ ९.०१५.०१
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।
यत्रा॒मृता॑स॒ आस॑ते ॥ ९.०१५.०२
ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था ।
यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥ ९.०१५.०३
ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।
नृ॒म्णा दधा॑न॒ ओज॑सा ॥ ९.०१५.०४
ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ ।
पतिः॒ सिन्धू॑नां॒ भव॑न् ॥ ९.०१५.०५
ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।
अव॒ शादे॑षु गच्छति ॥ ९.०१५.०६
ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ ।
प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥ ९.०१५.०७
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ ।
स्वा॒यु॒धं म॒दिन्त॑मम् ॥ ९.०१५.०८
प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये ।
सर्गो॒ न त॒क्त्येत॑शः ॥ ९.०१६.०१
क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा ।
गो॒षामण्वे॑षु सश्चिम ॥ ९.०१६.०२
अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥ ९.०१६.०३
प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥ ९.०१६.०४
प्र त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत ।
म॒हे भरा॑य का॒रिणः॑ ॥ ९.०१६.०५
पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
शूरो॒ न गोषु॑ तिष्ठति ॥ ९.०१६.०६
दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
वृथा॑ प॒वित्रे॑ अर्षति ॥ ९.०१६.०७
त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ ।
अव्यो॒ वारं॒ वि धा॑वसि ॥ ९.०१६.०८
प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः ।
सोमा॑ असृग्रमा॒शवः॑ ॥ ९.०१७.०१
अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व ।
इन्द्रं॒ सोमा॑सो अक्षरन् ॥ ९.०१७.०२
अत्यू॑र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०१७.०३
आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते ।
उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥ ९.०१७.०४
अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् ।
इ॒ष्णन्सूर्यं॒ न चो॑दयः ॥ ९.०१७.०५
अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ ।
दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥ ९.०१७.०६
तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
मृ॒जन्ति॑ दे॒वता॑तये ॥ ९.०१७.०७
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः ।
चारु॑रृ॒ताय॑ पी॒तये॑ ॥ ९.०१७.०८
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०१
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०२
तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०३
आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०४
य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०५
परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०६
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०७
यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।
तन्नः॑ पुना॒न आ भ॑र ॥ ९.०१९.०१
यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती ।
ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥ ९.०१९.०२
वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।
हरिः॒ सन्योनि॒मास॑दत् ॥ ९.०१९.०३
अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।
सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥ ९.०१९.०४
कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।
याः शु॒क्रं दु॑ह॒ते पयः॑ ॥ ९.०१९.०५
उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।
पव॑मान वि॒दा र॒यिम् ॥ ९.०१९.०६
नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।
दू॒रे वा॑ स॒तो अन्ति॑ वा ॥ ९.०१९.०७
प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति ।
सा॒ह्वान्विश्वा॑ अ॒भि स्पृधः॑ ॥ ९.०२०.०१
स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति ।
पव॑मानः सह॒स्रिण॑म् ॥ ९.०२०.०२
परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती ।
स नः॑ सोम॒ श्रवो॑ विदः ॥ ९.०२०.०३
अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् ।
इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ९.०२०.०४
त्वं राजे॑व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ ।
पु॒ना॒नो व॑ह्ने अद्भुत ॥ ९.०२०.०५
स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
सोम॑श्च॒मूषु॑ सीदति ॥ ९.०२०.०६
क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥ ९.०२०.०७
ए॒ते धा॑व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥ ९.०२१.०१
प्र॒वृ॒ण्वन्तो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।
स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥ ९.०२१.०२
वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥ ९.०२१.०३
ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
हि॒ता न सप्त॑यो॒ रथे॑ ॥ ९.०२१.०४
आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
यो अ॒स्मभ्य॒मरा॑वा ॥ ९.०२१.०५
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
शु॒क्राः प॑वध्व॒मर्ण॑सा ॥ ९.०२१.०६
ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
स॒तः प्रासा॑विषुर्म॒तिम् ॥ ९.०२१.०७
ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।
सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥ ९.०२२.०१
ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।
अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥ ९.०२२.०२
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।
वि॒पा व्या॑नशु॒र्धियः॑ ॥ ९.०२२.०३
ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।
इय॑क्षन्तः प॒थो रजः॑ ॥ ९.०२२.०४
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः ।
उ॒तेदमु॑त्त॒मं रजः॑ ॥ ९.०२२.०५
तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।
उ॒तेदमु॑त्त॒माय्य॑म् ॥ ९.०२२.०६
त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।
त॒तं तन्तु॑मचिक्रदः ॥ ९.०२२.०७
सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥ ९.०२३.०१
अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।
रु॒चे ज॑नन्त॒ सूर्य॑म् ॥ ९.०२३.०२
आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गय॑म् ।
कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥ ९.०२३.०३
अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मद्यं॒ मद॑म् ।
अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥ ९.०२३.०४
सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् ।
सु॒वीरो॑ अभिशस्ति॒पाः ॥ ९.०२३.०५
इन्द्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ ।
इन्दो॒ वाजं॑ सिषाससि ॥ ९.०२३.०६
अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति ।
ज॒घान॑ ज॒घन॑च्च॒ नु ॥ ९.०२३.०७
प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इन्द॑वः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥ ९.०२४.०१
अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
पु॒ना॒ना इन्द्र॑माशत ॥ ९.०२४.०२
प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे ।
नृभि॑र्य॒तो वि नी॑यसे ॥ ९.०२४.०३
त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।
सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥ ९.०२४.०४
इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥ ९.०२४.०५
पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ ।
शुचिः॑ पाव॒को अद्भु॑तः ॥ ९.०२४.०६
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।
दे॒वा॒वीर॑घशंस॒हा ॥ ९.०२४.०७
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे ।
म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥ ९.०२५.०१
पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।
धर्म॑णा वा॒युमा वि॑श ॥ ९.०२५.०२
सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥ ९.०२५.०३
विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।
यत्रा॒मृता॑स॒ आस॑ते ॥ ९.०२५.०४
अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् ।
इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥ ९.०२५.०५
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥ ९.०२५.०६
तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ ।
विप्रा॑सो॒ अण्व्या॑ धि॒या ॥ ९.०२६.०१
तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् ।
इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥ ९.०२६.०२
तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ ।
ध॒र्ण॒सिं भूरि॑धायसम् ॥ ९.०२६.०३
तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः ।
पतिं॑ वा॒चो अदा॑भ्यम् ॥ ९.०२६.०४
तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
ह॒र्य॒तं भूरि॑चक्षसम् ॥ ९.०२६.०५
तं त्वा॑ हिन्वन्ति वे॒धसः॒ पव॑मान गिरा॒वृध॑म् ।
इन्द॒विन्द्रा॑य मत्स॒रम् ॥ ९.०२६.०६
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।
पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥ ९.०२७.०१
ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।
प॒वित्रे॑ दक्ष॒साध॑नः ॥ ९.०२७.०२
ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।
सोमो॒ वने॑षु विश्व॒वित् ॥ ९.०२७.०३
ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।
इन्दुः॑ सत्रा॒जिदस्तृ॑तः ॥ ९.०२७.०४
ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।
प॒वित्रे॑ मत्स॒रो मदः॑ ॥ ९.०२७.०५
ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरिः॑ ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥ ९.०२७.०६
ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।
अव्यो॒ वारं॒ वि धा॑वति ॥ ९.०२८.०१
ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।
विश्वा॒ धामा॑न्यावि॒शन् ॥ ९.०२८.०२
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥ ९.०२८.०३
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
अ॒भि द्रोणा॑नि धावति ॥ ९.०२८.०४
ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
विश्वा॒ धामा॑नि विश्व॒वित् ॥ ९.०२८.०५
ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।
दे॒वा॒वीर॑घशंस॒हा ॥ ९.०२८.०६
प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा ।
दे॒वाँ अनु॑ प्र॒भूष॑तः ॥ ९.०२९.०१
सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्तः॑ का॒रवो॑ गि॒रा ।
ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥ ९.०२९.०२
सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥ ९.०२९.०३
विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥ ९.०२९.०४
रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
नि॒दो यत्र॑ मुमु॒च्महे॑ ॥ ९.०२९.०५
एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥ ९.०२९.०६
प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।
पु॒ना॒नो वाच॑मिष्यति ॥ ९.०३०.०१
इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑नः॒ कनि॑क्रदत् ।
इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम् ॥ ९.०३०.०२
आ नः॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् ।
पव॑स्व सोम॒ धार॑या ॥ ९.०३०.०३
प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् ।
अ॒भि द्रोणा॑न्या॒सद॑म् ॥ ९.०३०.०४
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥ ९.०३०.०५
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
चारुं॒ शर्धा॑य मत्स॒रम् ॥ ९.०३०.०६
प्र सोमा॑सः स्वा॒ध्य१॒ः॑ पव॑मानासो अक्रमुः ।
र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥ ९.०३१.०१
दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः ।
भवा॒ वाजा॑नां॒ पतिः॑ ॥ ९.०३१.०२
तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।
सोम॒ वर्ध॑न्ति ते॒ महः॑ ॥ ९.०३१.०३
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य संग॒थे ॥ ९.०३१.०४
तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् ।
वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥ ९.०३१.०५
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् ।
इन्दो॑ सखि॒त्वमु॑श्मसि ॥ ९.०३१.०६
प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ ।
सु॒ता वि॒दथे॑ अक्रमुः ॥ ९.०३२.०१
आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०३२.०२
आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिम् ।
अत्यो॒ न गोभि॑रज्यते ॥ ९.०३२.०३
उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०३२.०४
अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यम् ।
अग॑न्ना॒जिं यथा॑ हि॒तम् ॥ ९.०३२.०५
अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।
स॒निं मे॒धामु॒त श्रवः॑ ॥ ९.०३२.०६
प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ ।
वना॑नि महि॒षा इ॑व ॥ ९.०३३.०१
अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोम॑न्तमक्षरन् ॥ ९.०३३.०२
सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥ ९.०३३.०३
ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ ।
हरि॑रेति॒ कनि॑क्रदत् ॥ ९.०३३.०४
अ॒भि ब्रह्मी॑रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ ।
म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥ ९.०३३.०५
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिणः॑ ॥ ९.०३३.०६
प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।
रु॒जद्दृ॒ळ्हा व्योज॑सा ॥ ९.०३४.०१
सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥ ९.०३४.०२
वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।
दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥ ९.०३४.०३
भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।
सं रू॒पैर॑ज्यते॒ हरिः॑ ॥ ९.०३४.०४
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
चारु॑ प्रि॒यत॑मं ह॒विः ॥ ९.०३४.०५
समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ ।
धे॒नूर्वा॒श्रो अ॑वीवशत् ॥ ९.०३४.०६
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् ।
यया॒ ज्योति॑र्वि॒दासि॑ नः ॥ ९.०३५.०१
इन्दो॑ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय ।
रा॒यो ध॒र्ता न॒ ओज॑सा ॥ ९.०३५.०२
त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।
क्षरा॑ णो अ॒भि वार्य॑म् ॥ ९.०३५.०३
प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ ।
व्र॒ता वि॑दा॒न आयु॑धा ॥ ९.०३५.०४
तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि ।
सोमं॒ जन॑स्य॒ गोप॑तिम् ॥ ९.०३५.०५
विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ ।
पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥ ९.०३५.०६
अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः ।
कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥ ९.०३६.०१
स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ ।
अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥ ९.०३६.०२
स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।
क्रत्वे॒ दक्षा॑य नो हिनु ॥ ९.०३६.०३
शु॒म्भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
पव॑ते॒ वारे॑ अ॒व्यये॑ ॥ ९.०३६.०४
स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।
पव॑ता॒मान्तरि॑क्ष्या ॥ ९.०३६.०५
आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।
वी॒र॒युः श॑वसस्पते ॥ ९.०३६.०६
स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०३७.०१
स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः ।
अ॒भि योनिं॒ कनि॑क्रदत् ॥ ९.०३७.०२
स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति ।
र॒क्षो॒हा वार॑म॒व्यय॑म् ॥ ९.०३७.०३
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् ।
जा॒मिभिः॒ सूर्यं॑ स॒ह ॥ ९.०३७.०४
स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः ।
सोमो॒ वाज॑मिवासरत् ॥ ९.०३७.०५
स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति ।
इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥ ९.०३७.०६
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।
गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥ ९.०३८.०१
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०३८.०२
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ ।
याभि॒र्मदा॑य॒ शुम्भ॑ते ॥ ९.०३८.०३
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।
गच्छ॑ञ्जा॒रो न यो॒षित॑म् ॥ ९.०३८.०४
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ ।
य इन्दु॒र्वार॒मावि॑शत् ॥ ९.०३८.०५
ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।
क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥ ९.०३८.०६
आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ ।
यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥ ९.०३९.०१
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ ।
वृ॒ष्टिं दि॒वः परि॑ स्रव ॥ ९.०३९.०२
सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा ।
वि॒चक्षा॑णो विरो॒चय॑न् ॥ ९.०३९.०३
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ ।
सिन्धो॑रू॒र्मा व्यक्ष॑रत् ॥ ९.०३९.०४
आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः ।
इन्द्रा॑य सिच्यते॒ मधु॑ ॥ ९.०३९.०५
स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
योना॑वृ॒तस्य॑ सीदत ॥ ९.०३९.०६
पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।
शु॒म्भन्ति॒ विप्रं॑ धी॒तिभिः॑ ॥ ९.०४०.०१
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।
ध्रु॒वे सद॑सि सीदति ॥ ९.०४०.०२
नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिण॑म् ॥ ९.०४०.०३
विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र ।
वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥ ९.०४०.०४
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् ।
ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥ ९.०४०.०५
पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
वृष॑न्निन्दो न उ॒क्थ्य॑म् ॥ ९.०४०.०६
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।
घ्नन्तः॑ कृ॒ष्णामप॒ त्वच॑म् ॥ ९.०४१.०१
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् ।
सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥ ९.०४१.०२
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ ।
चर॑न्ति वि॒द्युतो॑ दि॒वि ॥ ९.०४१.०३
आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् ।
अश्वा॑व॒द्वाज॑वत्सु॒तः ॥ ९.०४१.०४
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।
उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥ ९.०४१.०५
परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ ।
सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥ ९.०४१.०६
ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् ।
वसा॑नो॒ गा अ॒पो हरिः॑ ॥ ९.०४२.०१
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।
धार॑या पवते सु॒तः ॥ ९.०४२.०२
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये ।
सोमाः॑ स॒हस्र॑पाजसः ॥ ९.०४२.०३
दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।
क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥ ९.०४२.०४
अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।
सोमः॑ पुना॒नो अ॑र्षति ॥ ९.०४२.०५
गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।
पव॑स्व बृह॒तीरिषः॑ ॥ ९.०४२.०६
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
तं गी॒र्भिर्वा॑सयामसि ॥ ९.०४३.०१
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०४३.०२
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
विप्र॑स्य॒ मेध्या॑तिथेः ॥ ९.०४३.०३
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् ।
इन्दो॑ स॒हस्र॑वर्चसम् ॥ ९.०४३.०४
इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ ।
यदक्षा॒रति॑ देव॒युः ॥ ९.०४३.०५
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
सोम॒ रास्व॑ सु॒वीर्य॑म् ॥ ९.०४३.०६
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि ।
अ॒भि दे॒वाँ अ॒यास्यः॑ ॥ ९.०४४.०१
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ ।
विप्र॑स्य॒ धार॑या क॒विः ॥ ९.०४४.०२
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ ।
सोमो॑ याति॒ विच॑र्षणिः ॥ ९.०४४.०३
स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् ।
ब॒र्हिष्मा॒ँ आ वि॑वासति ॥ ९.०४४.०४
स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः ।
सोमो॑ दे॒वेष्वा य॑मत् ॥ ९.०४४.०५
स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः ।
वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥ ९.०४४.०६
स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥ ९.०४५.०१
स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा॑य तोशसे ।
दे॒वान्सखि॑भ्य॒ आ वर॑म् ॥ ९.०४५.०२
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥ ९.०४५.०३
अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
इन्दु॑र्दे॒वेषु॑ पत्यते ॥ ९.०४५.०४
समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
इन्दुं॑ ना॒वा अ॑नूषत ॥ ९.०४५.०५
तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥ ९.०४५.०६
असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव ।
क्षर॑न्तः पर्वता॒वृधः॑ ॥ ९.०४६.०१
परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।
वा॒युं सोमा॑ असृक्षत ॥ ९.०४६.०२
ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः ।
इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥ ९.०४६.०३
आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।
गोभिः॑ श्रीणीत मत्स॒रम् ॥ ९.०४६.०४
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥ ९.०४६.०५
ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।
इन्द्रा॑य मत्स॒रं मद॑म् ॥ ९.०४६.०६
अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।
म॒न्दा॒न उद्वृ॑षायते ॥ ९.०४७.०१
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत॑न्ते दस्यु॒तर्ह॑णा ।
ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥ ९.०४७.०२
आत्सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् ।
उ॒क्थं यद॑स्य॒ जाय॑ते ॥ ९.०४७.०३
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।
यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥ ९.०४७.०४
सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।
भरे॑षु जि॒ग्युषा॑मसि ॥ ९.०४७.०५
तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः ।
चारुं॑ सुकृ॒त्यये॑महे ॥ ९.०४८.०१
संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मद॑म् ।
श॒तं पुरो॑ रुरु॒क्षणि॑म् ॥ ९.०४८.०२
अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः ।
सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥ ९.०४८.०३
विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् ।
गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥ ९.०४८.०४
अधा॑ हिन्वा॒न इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे ।
अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥ ९.०४८.०५
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।
अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥ ९.०४९.०१
तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।
जन्या॑स॒ उप॑ नो गृ॒हम् ॥ ९.०४९.०२
घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।
अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥ ९.०४९.०३
स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।
दे॒वासः॑ शृ॒णव॒न्हि क॑म् ॥ ९.०४९.०४
पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् ।
प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥ ९.०४९.०५
उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः ।
वा॒णस्य॑ चोदया प॒विम् ॥ ९.०५०.०१
प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युवः॑ ।
यदव्य॒ एषि॒ सान॑वि ॥ ९.०५०.०२
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
पव॑मानं मधु॒श्चुत॑म् ॥ ९.०५०.०३
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥ ९.०५०.०४
स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभिः॑ ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥ ९.०५०.०५
अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज ।
पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥ ९.०५१.०१
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
सु॒नोता॒ मधु॑मत्तमम् ॥ ९.०५१.०२
तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते ।
पव॑मानस्य म॒रुतः॑ ॥ ९.०५१.०३
त्वं हि सो॑म व॒र्धय॑न्सु॒तो मदा॑य॒ भूर्ण॑ये ।
वृष॑न्स्तो॒तार॑मू॒तये॑ ॥ ९.०५१.०४
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.०५१.०५
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा ।
सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥ ९.०५२.०१
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
स॒हस्र॑धारो या॒त्तना॑ ॥ ९.०५२.०२
च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय ।
व॒धैर्व॑धस्नवीङ्खय ॥ ९.०५२.०३
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
यो अ॒स्माँ आ॒दिदे॑शति ॥ ९.०५२.०४
श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नाम् ।
पव॑स्व मंह॒यद्र॑यिः ॥ ९.०५२.०५
उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः ।
नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥ ९.०५३.०१
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते ।
स्तवा॒ अबि॑भ्युषा हृ॒दा ॥ ९.०५३.०२
अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ ।
रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥ ९.०५३.०३
तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥ ९.०५३.०४
अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।
पयः॑ सहस्र॒सामृषि॑म् ॥ ९.०५४.०१
अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति ।
स॒प्त प्र॒वत॒ आ दिव॑म् ॥ ९.०५४.०२
अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ ।
सोमो॑ दे॒वो न सूर्यः॑ ॥ ९.०५४.०३
परि॑ णो दे॒ववी॑तये॒ वाजा॑ँ अर्षसि॒ गोम॑तः ।
पु॒ना॒न इ॑न्दविन्द्र॒युः ॥ ९.०५४.०४
यवं॑यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव ।
सोम॒ विश्वा॑ च॒ सौभ॑गा ॥ ९.०५५.०१
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः ।
नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥ ९.०५५.०२
उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा ।
म॒क्षूत॑मेभि॒रह॑भिः ॥ ९.०५५.०३
यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ ।
स प॑वस्व सहस्रजित् ॥ ९.०५५.०४
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०५६.०१
यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ ।
इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥ ९.०५६.०२
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत ।
मृ॒ज्यसे॑ सोम सा॒तये॑ ॥ ९.०५६.०३
त्वमिन्द्रा॑य॒ विष्ण॑वे स्वा॒दुरि॑न्दो॒ परि॑ स्रव ।
नॄन्स्तो॒तॄन्पा॒ह्यंह॑सः ॥ ९.०५६.०४
प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टयः॑ ।
अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥ ९.०५७.०१
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।
हरि॑स्तुञ्जा॒न आयु॑धा ॥ ९.०५७.०२
स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।
श्ये॒नो न वंसु॑ षीदति ॥ ९.०५७.०३
स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।
पु॒ना॒न इ॑न्द॒वा भ॑र ॥ ९.०५७.०४
तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।
तर॒त्स म॒न्दी धा॑वति ॥ ९.०५८.०१
उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।
तर॒त्स म॒न्दी धा॑वति ॥ ९.०५८.०२
ध्व॒स्रयोः॑ पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे ।
तर॒त्स म॒न्दी धा॑वति ॥ ९.०५८.०३
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
तर॒त्स म॒न्दी धा॑वति ॥ ९.०५८.०४
पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।
प्र॒जाव॒द्रत्न॒मा भ॑र ॥ ९.०५९.०१
पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः ।
पव॑स्व धि॒षणा॑भ्यः ॥ ९.०५९.०२
त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।
क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥ ९.०५९.०३
पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् ।
इन्दो॒ विश्वा॑ अ॒भीद॑सि ॥ ९.०५९.०४
प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् ।
इन्दुं॑ स॒हस्र॑चक्षसम् ॥ ९.०६०.०१
तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् ।
अति॒ वार॑मपाविषुः ॥ ९.०६०.०२
अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशा॑ अ॒भि धा॑वति ।
इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥ ९.०६०.०३
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।
प्र॒जाव॒द्रेत॒ आ भ॑र ॥ ९.०६०.०४
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा ।
अ॒वाह॑न्नव॒तीर्नव॑ ॥ ९.०६१.०१
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् ।
अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥ ९.०६१.०२
परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् ।
क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥ ९.०६१.०३
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः ।
स॒खि॒त्वमा वृ॑णीमहे ॥ ९.०६१.०४
ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या ।
तेभि॑र्नः सोम मृळय ॥ ९.०६१.०५
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् ।
ईशा॑नः सोम वि॒श्वतः॑ ॥ ९.०६१.०६
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् ।
समा॑दि॒त्येभि॑रख्यत ॥ ९.०६१.०७
समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
सं सूर्य॑स्य र॒श्मिभिः॑ ॥ ९.०६१.०८
स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
चारु॑र्मि॒त्रे वरु॑णे च ॥ ९.०६१.०९
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे ।
उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥ ९.०६१.१०
ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् ।
सिषा॑सन्तो वनामहे ॥ ९.०६१.११
स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
व॒रि॒वो॒वित्परि॑ स्रव ॥ ९.०६१.१२
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् ।
इन्दुं॑ दे॒वा अ॑यासिषुः ॥ ९.०६१.१३
तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
य इन्द्र॑स्य हृदं॒सनिः॑ ॥ ९.०६१.१४
अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥ ९.०६१.१५
पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥ ९.०६१.१६
पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।
वि वार॒मव्य॑मर्षति ॥ ९.०६१.१७
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥ ९.०६१.१८
यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा ।
दे॒वा॒वीर॑घशंस॒हा ॥ ९.०६१.१९
जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
गो॒षा उ॑ अश्व॒सा अ॑सि ॥ ९.०६१.२०
सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।
सीद॑ञ्छ्ये॒नो न योनि॒मा ॥ ९.०६१.२१
स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
व॒व्रि॒वांसं॑ म॒हीर॒पः ॥ ९.०६१.२२
सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥ ९.०६१.२३
त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ ।
सोम॑ व्र॒तेषु॑ जागृहि ॥ ९.०६१.२४
अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।
गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ ९.०६१.२५
म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।
रास्वे॑न्दो वी॒रव॒द्यशः॑ ॥ ९.०६१.२६
न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् ।
यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥ ९.०६१.२७
पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
विश्वा॒ अप॒ द्विषो॑ जहि ॥ ९.०६१.२८
अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
सा॒स॒ह्याम॑ पृतन्य॒तः ॥ ९.०६१.२९
या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
रक्षा॑ समस्य नो नि॒दः ॥ ९.०६१.३०
ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
विश्वा॑न्य॒भि सौभ॑गा ॥ ९.०६२.०१
वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।
तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ॥ ९.०६२.०२
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥ ९.०६२.०३
असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।
श्ये॒नो न योनि॒मास॑दत् ॥ ९.०६२.०४
शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः ।
स्वद॑न्ति॒ गावः॒ पयो॑भिः ॥ ९.०६२.०५
आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।
मध्वो॒ रसं॑ सध॒मादे॑ ॥ ९.०६२.०६
यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ ।
ताभिः॑ प॒वित्र॒मास॑दः ॥ ९.०६२.०७
सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।
सीद॒न्योना॒ वने॒ष्वा ॥ ९.०६२.०८
त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥ ९.०६२.०९
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति ।
हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥ ९.०६२.१०
ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा ।
कर॒द्वसू॑नि दा॒शुषे॑ ॥ ९.०६२.११
आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥ ९.०६२.१२
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।
उ॒रु॒गा॒यः क॒विक्र॑तुः ॥ ९.०६२.१३
स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।
इन्द्रा॑य पवते॒ मदः॑ ॥ ९.०६२.१४
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते ।
विर्योना॑ वस॒तावि॑व ॥ ९.०६२.१५
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् ।
च॒मूषु॒ शक्म॑ना॒सद॑म् ॥ ९.०६२.१६
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ।
ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥ ९.०६२.१७
तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।
हरिं॑ हिनोत वा॒जिन॑म् ॥ ९.०६२.१८
आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
शूरो॒ न गोषु॑ तिष्ठति ॥ ९.०६२.१९
आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यवः॑ ।
दे॒वा दे॒वेभ्यो॒ मधु॑ ॥ ९.०६२.२०
आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् ।
दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ॥ ९.०६२.२१
ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।
म॒दिन्त॑मस्य॒ धार॑या ॥ ९.०६२.२२
अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
स॒नद्वा॑जः॒ परि॑ स्रव ॥ ९.०६२.२३
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।
गृ॒णा॒नो ज॒मद॑ग्निना ॥ ९.०६२.२४
पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥ ९.०६२.२५
त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् ।
पव॑स्व विश्वमेजय ॥ ९.०६२.२६
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।
तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥ ९.०६२.२७
प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चतः॑ ।
अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ॥ ९.०६२.२८
इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ।
ई॒शा॒नं वी॒तिरा॑धसम् ॥ ९.०६२.२९
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥ ९.०६२.३०
आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्य॑म् ।
अ॒स्मे श्रवां॑सि धारय ॥ ९.०६३.०१
इष॒मूर्जं॑ च पिन्वस॒ इन्द्रा॑य मत्स॒रिन्त॑मः ।
च॒मूष्वा नि षी॑दसि ॥ ९.०६३.०२
सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।
मधु॑माँ अस्तु वा॒यवे॑ ॥ ९.०६३.०३
ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
सोमा॑ ऋ॒तस्य॒ धार॑या ॥ ९.०६३.०४
इन्द्रं॒ वर्ध॑न्तो अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य॑म् ।
अ॒प॒घ्नन्तो॒ अरा॑व्णः ॥ ९.०६३.०५
सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ ।
इन्द्रं॒ गच्छ॑न्त॒ इन्द॑वः ॥ ९.०६३.०६
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
हि॒न्वा॒नो मानु॑षीर॒पः ॥ ९.०६३.०७
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।
अ॒न्तरि॑क्षेण॒ यात॑वे ॥ ९.०६३.०८
उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥ ९.०६३.०९
परी॒तो वा॒यवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् ।
अव्यो॒ वारे॑षु सिञ्चत ॥ ९.०६३.१०
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् ।
यो दू॒णाशो॑ वनुष्य॒ता ॥ ९.०६३.११
अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.०६३.१२
सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।
दधा॑नः क॒लशे॒ रस॑म् ॥ ९.०६३.१३
ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोम॑न्तमक्षरन् ॥ ९.०६३.१४
सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
प॒वित्र॒मत्य॑क्षरन् ॥ ९.०६३.१५
प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
मदो॒ यो दे॑व॒वीत॑मः ॥ ९.०६३.१६
तमी॑ मृजन्त्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥ ९.०६३.१७
आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
वाजं॒ गोम॑न्त॒मा भ॑र ॥ ९.०६३.१८
परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिञ्चत ।
इन्द्रा॑य॒ मधु॑मत्तमम् ॥ ९.०६३.१९
क॒विं मृ॑जन्ति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
वृषा॒ कनि॑क्रदर्षति ॥ ९.०६३.२०
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
म॒ती विप्राः॒ सम॑स्वरन् ॥ ९.०६३.२१
पव॑स्व देवायु॒षगिन्द्रं॑ गच्छतु ते॒ मदः॑ ।
वा॒युमा रो॑ह॒ धर्म॑णा ॥ ९.०६३.२२
पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्य॑म् ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥ ९.०६३.२३
अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।
नु॒दस्वादे॑वयुं॒ जन॑म् ॥ ९.०६३.२४
पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इन्द॑वः ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥ ९.०६३.२५
पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिन्द॑वः ।
घ्नन्तो॒ विश्वा॒ अप॒ द्विषः॑ ॥ ९.०६३.२६
पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत ।
पृ॒थि॒व्या अधि॒ सान॑वि ॥ ९.०६३.२७
पु॒ना॒नः सो॑म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिधः॑ ।
ज॒हि रक्षां॑सि सुक्रतो ॥ ९.०६३.२८
अ॒प॒घ्नन्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥ ९.०६३.२९
अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
इन्दो॒ विश्वा॑नि॒ वार्या॑ ॥ ९.०६३.३०
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ॥ ९.०६४.०१
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।
स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥ ९.०६४.०२
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥ ९.०६४.०३
असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।
शु॒क्रासो॑ वीर॒याशवः॑ ॥ ९.०६४.०४
शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
पव॑न्ते॒ वारे॑ अ॒व्यये॑ ॥ ९.०६४.०५
ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
पव॑न्ता॒मान्तरि॑क्ष्या ॥ ९.०६४.०६
पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।
सूर्य॑स्येव॒ न र॒श्मयः॑ ॥ ९.०६४.०७
के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।
स॒मु॒द्रः सो॑म पिन्वसे ॥ ९.०६४.०८
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।
अक्रा॑न्दे॒वो न सूर्यः॑ ॥ ९.०६४.०९
इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।
सृ॒जदश्वं॑ र॒थीरि॑व ॥ ९.०६४.१०
ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६४.११
स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥ ९.०६४.१२
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।
इन्दो॑ रु॒चाभि गा इ॑हि ॥ ९.०६४.१३
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।
हरे॑ सृजा॒न आ॒शिर॑म् ॥ ९.०६४.१४
पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् ।
द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥ ९.०६४.१५
प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ ।
धि॒या जू॒ता अ॑सृक्षत ॥ ९.०६४.१६
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः ।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६४.१७
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।
पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥ ९.०६४.१८
मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।
प्र यत्स॑मु॒द्र आहि॑तः ॥ ९.०६४.१९
आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति ।
जहा॒त्यप्र॑चेतसः ॥ ९.०६४.२०
अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः ।
मज्ज॒न्त्यवि॑चेतसः ॥ ९.०६४.२१
इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ ९.०६४.२२
तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ ।
सं त्वा॑ मृजन्त्या॒यवः॑ ॥ ९.०६४.२३
रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे ।
पव॑मानस्य म॒रुतः॑ ॥ ९.०६४.२४
त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।
इन्दो॑ स॒हस्र॑भर्णसम् ॥ ९.०६४.२५
उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् ।
पु॒ना॒न इ॑न्द॒वा भ॑र ॥ ९.०६४.२६
पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥ ९.०६४.२७
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा ।
सोमाः॑ शु॒क्रा गवा॑शिरः ॥ ९.०६४.२८
हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।
सीद॑न्तो व॒नुषो॑ यथा ॥ ९.०६४.२९
ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।
पव॑स्व॒ सूर्यो॑ दृ॒शे ॥ ९.०६४.३०
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पति॑म् ।
म॒हामिन्दुं॑ मही॒युवः॑ ॥ ९.०६५.०१
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।
विश्वा॒ वसू॒न्या वि॑श ॥ ९.०६५.०२
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।
इ॒षे प॑वस्व सं॒यत॑म् ॥ ९.०६५.०३
वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे ।
पव॑मान स्वा॒ध्यः॑ ॥ ९.०६५.०४
आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध ।
इ॒हो ष्वि॑न्द॒वा ग॑हि ॥ ९.०६५.०५
यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
द्रुणा॑ स॒धस्थ॑मश्नुषे ॥ ९.०६५.०६
प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।
म॒हे स॒हस्र॑चक्षसे ॥ ९.०६५.०७
यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०६५.०८
तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
स॒खि॒त्वमा वृ॑णीमहे ॥ ९.०६५.०९
वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।
विश्वा॒ दधा॑न॒ ओज॑सा ॥ ९.०६५.१०
तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒ः॑ पव॑मान स्व॒र्दृश॑म् ।
हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥ ९.०६५.११
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या ।
युजं॒ वाजे॑षु चोदय ॥ ९.०६५.१२
आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥ ९.०६५.१३
आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा ।
एन्द्र॑स्य पी॒तये॑ विश ॥ ९.०६५.१४
यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
स प॑वस्वाभिमाति॒हा ॥ ९.०६५.१५
राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।
अ॒न्तरि॑क्षेण॒ यात॑वे ॥ ९.०६५.१६
आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ।
वहा॒ भग॑त्तिमू॒तये॑ ॥ ९.०६५.१७
आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।
सु॒ष्वा॒णो दे॒ववी॑तये ॥ ९.०६५.१८
अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
सीद॑ञ्छ्ये॒नो न योनि॒मा ॥ ९.०६५.१९
अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥ ९.०६५.२०
इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिण॑म् ॥ ९.०६५.२१
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
ये वा॒दः श॑र्य॒णाव॑ति ॥ ९.०६५.२२
य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् ।
ये वा॒ जने॑षु प॒ञ्चसु॑ ॥ ९.०६५.२३
ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् ।
सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥ ९.०६५.२४
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।
हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥ ९.०६५.२५
प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥ ९.०६५.२६
तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।
स प॑वस्वा॒नया॑ रु॒चा ॥ ९.०६५.२७
आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥ ९.०६५.२८
आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥ ९.०६५.२९
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥ ९.०६५.३०
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ ।
सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥ ९.०६६.०१
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी ।
प्र॒ती॒ची सो॑म त॒स्थतुः॑ ॥ ९.०६६.०२
परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ ।
पव॑मान ऋ॒तुभिः॑ कवे ॥ ९.०६६.०३
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ ।
सखा॒ सखि॑भ्य ऊ॒तये॑ ॥ ९.०६६.०४
तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते ।
प॒वित्रं॑ सोम॒ धाम॑भिः ॥ ९.०६६.०५
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते ।
तुभ्यं॑ धावन्ति धे॒नवः॑ ॥ ९.०६६.०६
प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः ।
दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥ ९.०६६.०७
समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ ।
विप्र॑मा॒जा वि॒वस्व॑तः ॥ ९.०६६.०८
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ ।
रे॒भो यद॒ज्यसे॒ वने॑ ॥ ९.०६६.०९
पव॑मानस्य ते कवे॒ वाजि॒न्सर्गा॑ असृक्षत ।
अर्व॑न्तो॒ न श्र॑व॒स्यवः॑ ॥ ९.०६६.१०
अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ ।
अवा॑वशन्त धी॒तयः॑ ॥ ९.०६६.११
अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ ।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६६.१२
प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः ।
यद्गोभि॑र्वासयि॒ष्यसे॑ ॥ ९.०६६.१३
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः ।
इन्दो॑ सखि॒त्वमु॑श्मसि ॥ ९.०६६.१४
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से ।
एन्द्र॑स्य ज॒ठरे॑ विश ॥ ९.०६६.१५
म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः ।
युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥ ९.०६६.१६
य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः ।
भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥ ९.०६६.१७
त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् ।
वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥ ९.०६६.१८
अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥ ९.०६६.१९
अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः ।
तमी॑महे महाग॒यम् ॥ ९.०६६.२०
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् ।
दध॑द्र॒यिं मयि॒ पोष॑म् ॥ ९.०६६.२१
पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् ।
सूरो॒ न वि॒श्वद॑र्शतः ॥ ९.०६६.२२
स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः ।
इन्दु॒रत्यो॑ विचक्ष॒णः ॥ ९.०६६.२३
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् ।
कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥ ९.०६६.२४
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत ।
जी॒रा अ॑जि॒रशो॑चिषः ॥ ९.०६६.२५
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः ।
हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥ ९.०६६.२६
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥ ९.०६६.२७
प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥ ९.०६६.२८
ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः ।
इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥ ९.०६६.२९
यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः ।
तेन॑ नो मृळ जी॒वसे॑ ॥ ९.०६६.३०
त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।
पव॑स्व मंह॒यद्र॑यिः ॥ ९.०६७.०१
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।
इन्द्रा॑य सू॒रिरन्ध॑सा ॥ ९.०६७.०२
त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥ ९.०६७.०३
इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
हरि॒र्वाज॑मचिक्रदत् ॥ ९.०६७.०४
इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
वि वाजा॑न्सोम॒ गोम॑तः ॥ ९.०६७.०५
आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
भरा॑ सोम सह॒स्रिण॑म् ॥ ९.०६७.०६
पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
इन्द्रं॒ यामे॑भिराशत ॥ ९.०६७.०७
क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।
आ॒युः प॑वत आ॒यवे॑ ॥ ९.०६७.०८
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत॑म् ।
अ॒भि गि॒रा सम॑स्वरन् ॥ ९.०६७.०९
अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।
आ भ॑क्षत्क॒न्या॑सु नः ॥ ९.०६७.१०
अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥ ९.०६७.११
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥ ९.०६७.१२
वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
दे॒वेषु॑ रत्न॒धा अ॑सि ॥ ९.०६७.१३
आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
अ॒भि द्रोणा॒ कनि॑क्रदत् ॥ ९.०६७.१४
परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
श्ये॒नो न त॒क्तो अ॑र्षति ॥ ९.०६७.१५
पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥ ९.०६७.१६
असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥ ९.०६७.१७
ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥ ९.०६७.१८
ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥ ९.०६७.१९
ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
र॒क्षो॒हा वार॑म॒व्यय॑म् ॥ ९.०६७.२०
यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज्ज॑हि ॥ ९.०६७.२१
पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता स पु॑नातु नः ॥ ९.०६७.२२
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥ ९.०६७.२३
यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥ ९.०६७.२४
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥ ९.०६७.२५
त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ पुनीहि नः ॥ ९.०६७.२६
पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥ ९.०६७.२७
प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥ ९.०६७.२८
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥ ९.०६७.२९
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
आ॒खुं चि॑दे॒व दे॑व सोम ॥ ९.०६७.३०
यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥ ९.०६७.३१
पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
९.०६७.३२
पावमानीः स्वस्त्ययनीः सुदुघाहि घृतश्चुतः । ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम्॥
पावमानीर्दिशन्तु न इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नो देवीर्देवैः समाहिता॥
येन देवाः पवित्रेणात्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥
प्राजपत्यं पवित्रं शतोद्यामं हिरण्मयम् ।
तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे ॥
इन्द्रः पुनीती सहमापुनातु सोमः स्वस्त्यावरुणः समीच्या । यमो राजा प्रमृणाभिः पुनातु माजातवेदामूर्जयंत्यापुनातु॥
ऋषयस्तु तपस्तेपुः सर्वे स्वर्गजिगीषवः । तपसस्तपसोग्र्यं तु पावमानीऋ र्चोब्रवीत् ॥
यन्मेगर्भे वसतः पाषमुग्रं यज्जायमानस्य च किंचिदन्यत् । जातस्य च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि॥
मातापित्रोर्यन्न कृतं वचो मे यत्स्थावरं जङ्गममाबभूव । विश्वस्य तत्प्रहृषितं वचो मे तत्पावमानीभिरहं पुनामि॥
गोघ्नात्तस्करत्वात् स्त्रीवधाद्यच्च किल्बिषम् । पापकं च चरणेभ्यस्तत्पावमानीभिरहं पुनामि॥
ब्रह्मवधात्सुरापानात्स्वर्णस्तेयात्वृषलिगमनमैथुनसङ्गमात् । गुरोर्दाराधिगमनाच्च तत्पावमानीभिरहं पुनामि ॥
बालघ्नान्मातृपितृवधाद्भूमितस्करात्सर्ववर्णगमनमैथुनसङ्गमात् । पापेभ्यश्च प्रतिग्रहात्सद्यः प्रहरति सर्वदुष्कृतं तत्पावमानीभिरहं पुनामि॥
क्रयविक्रयाद्योनिदोषाद्भक्षाद्भोज्यात्प्रतिग्राहात् । असम्भोजनाच्चापि नृशंसं तत्पावमानीभिरहं पुनामि॥
दुर्यष्टं दुरधीतं पापं यच्चाज्ञानतो कृतम् । अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहं पुनामि॥
अमन्त्रमन्नं यत्किंचिद्धुयते च हुताशने । संवत्सरकृतं पापं तत्पावमानीभिरहं पुनामि ॥
ऋतस्ययोनयोमृतस्यधाम विश्वादेवेभ्यः पुण्यगन्धाः । ता न आपः प्रवहन्तु पापं शुद्धागच्छामि सुकृतामुलोकं तत्पावमानीभिरहं पुनामि॥
पावमानीः स्वस्त्यनीर्याभिर्गच्छति नान्दनम् । पुण्यांश्च भक्ष्यान्भक्षयत्यमृतत्वं च गच्छति ॥
पावमानीः पितॄन्देवान्ध्यायेद्यश्च सरस्वतीम् । पितॄंस्तस्योपवर्तेतत्क्षीरं सर्पिर्मधूदकम् ॥
पावमानं परं ब्रह्म शुक्रं ज्योतिः सनातनम् । ऋषींस्तस्योपतिष्ठेतत्क्षीरं सर्पिर्मधूदकम्॥
पावमानं परं ब्रह्म ये पठन्ति मनीषिणः । सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगाः॥
दशोत्तराण्यृचांश्चैव पावमानीः शतानि षट् एतज्जुह्वन्जपेन्मन्त्रं घोरमृत्युभयं हरेत् ॥
एतत् पुण्यं पापहरं रोग मृत्यु भयावहम्।
पठतां शृण्वतां श्चैव ददाति परमां गतिम्एतत् ॥
भद्रं नो अपि वातय मनः॥
शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयन्नो अस्तु। शिवा दिशः प्रदिश उद्दिशो न आपो विश्वतः परिपांतु सर्वशः शान्ति शान्ति शान्तिः ॥